Ṛgveda · Maṇḍala 1 · Sūkta 127
Ṛk 1.127.9
Saṃhitā
त्वम॑ग्ने॒ सह॑सा॒ सहं॑तमः शु॒ष्मिंत॑मो जायसे दे॒वता॑तये र॒यिर्न दे॒वता॑तये ।
शु॒ष्मिंत॑मो॒ हि ते॒ मदो॑ द्यु॒म्निंत॑म उ॒त क्रतुः॑ ।
अध॑ स्मा ते॒ परि॑ चरंत्यजर श्रुष्टी॒वानो॒ नाज॑र ॥
त्वम् अग्ने सहसा सहन्तमः शुष्मिन्तमो जायसे देवतातये रयिर् न देवतातये |
शुष्मिन्तमो हि ते मदो द्युम्निन्तम उत क्रतुः |
अध स्मा ते परि चरन्त्य् अजर श्रुष्टीवानो नाजर ||
tvámagne sáhasā sáhantamaḥ śuṣmíntamo jāyase devátātaye rayírná devátātaye ǀ
śuṣmíntamo hí te mádo dyumníntama utá krátuḥ ǀ
ádha smā te pári carantyajara śruṣṭīvā́no nā́jara ǁ
tvam agne sahasā sahantamaḥ śuṣmintamo jāyase devatātaye rayir na devatātaye |
śuṣmintamo hi te mado dyumnintama uta kratuḥ |
adha smā te pari caranty ajara śruṣṭīvāno nājara ||
Padapāṭha
त्वम् । अ॒ग्ने॒ । सह॑सा । सह॑न्ऽतमः । शु॒ष्मिन्ऽत॑मः । जा॒य॒से॒ । दे॒वऽता॑तये । र॒यिः । न । दे॒वऽता॑तये ।
शु॒ष्मिन्ऽत॑मः । हि । ते॒ । मदः॑ । द्यु॒म्निन्ऽत॑मः । उ॒त । क्रतुः॑ ।
अध॑ । स्म॒ । ते॒ । परि॑ । च॒र॒न्ति॒ । अ॒ज॒र॒ । श्रु॒ष्टी॒वानः॑ । न । अ॒ज॒र॒ ॥
त्वम् । अग्ने । सहसा । सहन्ऽतमः । शुष्मिन्ऽतमः । जायसे । देवऽतातये । रयिः । न । देवऽतातये ।
शुष्मिन्ऽतमः । हि । ते । मदः । द्युम्निन्ऽतमः । उत । क्रतुः ।
अध । स्म । ते । परि । चरन्ति । अजर । श्रुष्टीवानः । न । अजर ॥
tvám ǀ agne ǀ sáhasā ǀ sáhan-tamaḥ ǀ śuṣmín-tamaḥ ǀ jāyase ǀ devá-tātaye ǀ rayíḥ ǀ ná ǀ devá-tātaye ǀ
śuṣmín-tamaḥ ǀ hí ǀ te ǀ mádaḥ ǀ dyumnín-tamaḥ ǀ utá ǀ krátuḥ ǀ
ádha ǀ sma ǀ te ǀ pári ǀ caranti ǀ ajara ǀ śruṣṭīvā́naḥ ǀ ná ǀ ajara ǁ
tvam ǀ agne ǀ sahasā ǀ sahan-tamaḥ ǀ śuṣmin-tamaḥ ǀ jāyase ǀ deva-tātaye ǀ rayiḥ ǀ na ǀ deva-tātaye ǀ
śuṣmin-tamaḥ ǀ hi ǀ te ǀ madaḥ ǀ dyumnin-tamaḥ ǀ uta ǀ kratuḥ ǀ
adha ǀ sma ǀ te ǀ pari ǀ caranti ǀ ajara ǀ śruṣṭīvānaḥ ǀ na ǀ ajara ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.127.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.1.13.04
- Maṇḍala · Anuvāka · Ṛk
- 1.19.009
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Parucchepa Daivodāsi
- Chandas छन्दस्
- Atyaṣṭi, Atidhṛti
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.