Ṛgveda · Maṇḍala 1 · Sūkta 127
Ṛk 1.127.3
Saṃhitā
स हि पु॒रू चि॒दोज॑सा वि॒रुक्म॑ता॒ दीद्या॑नो॒ भव॑ति द्रुहंत॒रः प॑र॒शुर्न द्रु॑हंत॒रः ।
वी॒ळु चि॒द्यस्य॒ समृ॑तौ॒ श्रुव॒द्वने॑व॒ यत्स्थि॒रं ।
निः॒षह॑माणो यमते॒ नाय॑ते धन्वा॒सहा॒ नाय॑ते ॥
स हि पुरू चिद् ओजसा विरुक्मता दीद्यानो भवति द्रुहन्तरः परशुर् न द्रुहन्तरः |
वीऌउ चिद् यस्य समृतौ श्रुवद् वनेव यत् स्थिरम् |
निःषहमाणो यमते नायते धन्वासहा नायते ||
sá hí purū́ cidójasā virúkmatā dī́dyāno bhávati druhaṃtaráḥ paraśúrná druhaṃtaráḥ ǀ
vīḷú cidyásya sámṛtau śrúvadváneva yátsthirám ǀ
niḥṣáhamāṇo yamate nā́yate dhanvāsáhā nā́yate ǁ
sa hi purū cid ojasā virukmatā dīdyāno bhavati druhantaraḥ paraśur na druhantaraḥ |
vīḷu cid yasya samṛtau śruvad vaneva yat sthiram |
niḥṣahamāṇo yamate nāyate dhanvāsahā nāyate ||
Padapāṭha
सः । हि । पु॒रु । चि॒त् । ओज॑सा । वि॒रुक्म॑ता । दीद्या॑नः । भव॑ति । द्रु॒ह॒म्ऽत॒रः । प॒र॒शुः । न । द्रु॒ह॒म्ऽत॒रः ।
वी॒ळु । चि॒त् । यस्य॑ । सम्ऽऋ॑तौ । श्रुव॑त् । वना॑ऽइव । यत् । स्थि॒रम् ।
निः॒ऽसह॑मानः । य॒म॒ते॒ । न । अ॒य॒ते॒ । ध॒न्व॒ऽसहा॑ । न । अ॒य॒ते॒ ॥
सः । हि । पुरु । चित् । ओजसा । विरुक्मता । दीद्यानः । भवति । द्रुहम्ऽतरः । परशुः । न । द्रुहम्ऽतरः ।
वीळु । चित् । यस्य । सम्ऽऋतौ । श्रुवत् । वनाऽइव । यत् । स्थिरम् ।
निःऽसहमानः । यमते । न । अयते । धन्वऽसहा । न । अयते ॥
sáḥ ǀ hí ǀ purú ǀ cit ǀ ójasā ǀ virúkmatā ǀ dī́dyānaḥ ǀ bhávati ǀ druham-taráḥ ǀ paraśúḥ ǀ ná ǀ druham-taráḥ ǀ
vīḷú ǀ cit ǀ yásya ǀ sám-ṛtau ǀ śrúvat ǀ vánā-iva ǀ yát ǀ sthirám ǀ
niḥ-sáhamānaḥ ǀ yamate ǀ ná ǀ ayate ǀ dhanva-sáhā ǀ ná ǀ ayate ǁ
saḥ ǀ hi ǀ puru ǀ cit ǀ ojasā ǀ virukmatā ǀ dīdyānaḥ ǀ bhavati ǀ druham-taraḥ ǀ paraśuḥ ǀ na ǀ druham-taraḥ ǀ
vīḷu ǀ cit ǀ yasya ǀ sam-ṛtau ǀ śruvat ǀ vanā-iva ǀ yat ǀ sthiram ǀ
niḥ-sahamānaḥ ǀ yamate ǀ na ǀ ayate ǀ dhanva-sahā ǀ na ǀ ayate ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.127.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 2.1.12.03
- Maṇḍala · Anuvāka · Ṛk
- 1.19.003
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Parucchepa Daivodāsi
- Chandas छन्दस्
- Atyaṣṭi, Atidhṛti
- Svara स्वरः
- मध्यमः
Text and interpretations from the Ṛgveda database of theveda.org.in.