Ṛgveda · Maṇḍala 1 · Sūkta 112
Ṛk 1.112.12
Saṃhitā
याभी॑ र॒सां क्षोद॑सो॒द्नः पि॑पि॒न्वथु॑रन॒श्वं याभी॒ रथ॒माव॑तं जि॒षे ।
याभि॑स्त्रि॒शोक॑ उ॒स्रिया॑ उ॒दाज॑त॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥
याभी रसां क्षोदसोद्नः पिपिन्वथुर् अनश्वं याभी रथम् आवतं जिषे |
याभिस् त्रिशोक उस्रिया उदाजत ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ||
yā́bhī rasā́m kṣódasodnáḥ pipinváthuranaśvám yā́bhī ráthamā́vatam jiṣé ǀ
yā́bhistriśóka usríyā udā́jata tā́bhirū ṣú ūtíbhiraśvinā́ gatam ǁ
yābhī rasāṃ kṣodasodnaḥ pipinvathur anaśvaṃ yābhī ratham āvataṃ jiṣe |
yābhis triśoka usriyā udājata tābhir ū ṣu ūtibhir aśvinā gatam ||
Padapāṭha
याभिः॑ । र॒साम् । क्षोद॑सा । उ॒द्नः । पि॒पि॒न्वथुः॑ । अ॒न॒श्वम् । याभिः॑ । रथ॑म् । आव॑तम् । जि॒षे ।
याभिः॑ । त्रि॒ऽशोकः॑ । उ॒स्रियाः॑ । उ॒त्ऽआज॑त । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
याभिः । रसाम् । क्षोदसा । उद्नः । पिपिन्वथुः । अनश्वम् । याभिः । रथम् । आवतम् । जिषे ।
याभिः । त्रिऽशोकः । उस्रियाः । उत्ऽआजत । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥
yā́bhiḥ ǀ rasā́m ǀ kṣódasā ǀ udnáḥ ǀ pipinváthuḥ ǀ anaśvám ǀ yā́bhiḥ ǀ rátham ǀ ā́vatam ǀ jiṣé ǀ
yā́bhiḥ ǀ tri-śókaḥ ǀ usríyāḥ ǀ ut-ā́jata ǀ tā́bhiḥ ǀ ūṃ íti ǀ sú ǀ ūtí-bhiḥ ǀ aśvinā ǀ ā́ ǀ gatam ǁ
yābhiḥ ǀ rasām ǀ kṣodasā ǀ udnaḥ ǀ pipinvathuḥ ǀ anaśvam ǀ yābhiḥ ǀ ratham ǀ āvatam ǀ jiṣe ǀ
yābhiḥ ǀ tri-śokaḥ ǀ usriyāḥ ǀ ut-ājata ǀ tābhiḥ ǀ ūṃ iti ǀ su ǀ ūti-bhiḥ ǀ aśvinā ǀ ā ǀ gatam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.112.12
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.7.35.02
- Maṇḍala · Anuvāka · Ṛk
- 1.16.057
- Devatā देवता
- 1: Divaḥ, Pṛthivī (Heaven, Earth) (A), Agni (B); Aśvins (Cd); 2-25: Aśvins
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.