Ṛgveda · Maṇḍala 1 · Sūkta 112
Ṛk 1.112.7
Saṃhitā
याभिः॑ शुचं॒तिं ध॑न॒सां सु॑षं॒सदं॑ त॒प्तं घ॒र्ममो॒म्यावं॑त॒मत्र॑ये ।
याभिः॒ पृश्नि॑गुं पुरु॒कुत्स॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥
याभिः शुचन्तिं धनसां सुषंसदं तप्तं घर्मम् ओम्यावन्तम् अत्रये |
याभिः पृश्निगुम् पुरुकुत्सम् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ||
yā́bhiḥ śucantím dhanasā́m suṣaṃsádam taptám gharmámomyā́vantamátraye ǀ
yā́bhiḥ pṛ́śnigum purukútsamā́vatam tā́bhirū ṣú ūtíbhiraśvinā́ gatam ǁ
yābhiḥ śucantiṃ dhanasāṃ suṣaṃsadaṃ taptaṃ gharmam omyāvantam atraye |
yābhiḥ pṛśnigum purukutsam āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam ||
Padapāṭha
याभिः॑ । शु॒च॒न्ति । ध॒न॒ऽसाम् । सु॒ऽसं॒सद॑म् । त॒प्तम् । घ॒र्मम् । ओ॒म्याऽव॑न्तम् । अत्र॑ये ।
याभिः॑ । पृश्नि॑ऽगुम् । पु॒रु॒ऽकुत्स॑म् । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
याभिः । शुचन्ति । धनऽसाम् । सुऽसंसदम् । तप्तम् । घर्मम् । ओम्याऽवन्तम् । अत्रये ।
याभिः । पृश्निऽगुम् । पुरुऽकुत्सम् । आवतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥
yā́bhiḥ ǀ śucantí ǀ dhana-sā́m ǀ su-saṃsádam ǀ taptám ǀ gharmám ǀ omyā́-vantam ǀ átraye ǀ
yā́bhiḥ ǀ pṛ́śni-gum ǀ puru-kútsam ǀ ā́vatam ǀ tā́bhiḥ ǀ ūṃ íti ǀ sú ǀ ūtí-bhiḥ ǀ aśvinā ǀ ā́ ǀ gatam ǁ
yābhiḥ ǀ śucanti ǀ dhana-sām ǀ su-saṃsadam ǀ taptam ǀ gharmam ǀ omyā-vantam ǀ atraye ǀ
yābhiḥ ǀ pṛśni-gum ǀ puru-kutsam ǀ āvatam ǀ tābhiḥ ǀ ūṃ iti ǀ su ǀ ūti-bhiḥ ǀ aśvinā ǀ ā ǀ gatam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.112.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.7.34.02
- Maṇḍala · Anuvāka · Ṛk
- 1.16.052
- Devatā देवता
- 1: Divaḥ, Pṛthivī (Heaven, Earth) (A), Agni (B); Aśvins (Cd); 2-25: Aśvins
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.