Ṛgveda · Maṇḍala 1 · Sūkta 112
Ṛk 1.112.15
Saṃhitā
याभि॑र्व॒म्रं वि॑पिपा॒नमु॑पस्तु॒तं क॒लिं याभि॑र्वि॒त्तजा॑निं दुव॒स्यथः॑ ।
याभि॒र्व्य॑श्वमु॒त पृथि॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥
याभिर् वम्रं विपिपानम् उपस्तुतं कलिं याभिर् वित्तजानिं दुवस्यथः |
याभिर् व्यश्वम् उत पृथिम् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ||
yā́bhirvamrám vipipānámupastutám kalím yā́bhirvittájānim duvasyáthaḥ ǀ
yā́bhirvyáśvamutá pṛ́thimā́vatam tā́bhirū ṣú ūtíbhiraśvinā́ gatam ǁ
yābhir vamraṃ vipipānam upastutaṃ kaliṃ yābhir vittajāniṃ duvasyathaḥ |
yābhir vyaśvam uta pṛthim āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam ||
Padapāṭha
याभिः॑ । व॒म्रम् । वि॒ऽपि॒पा॒नम् । उ॒प॒ऽस्तु॒तम् । क॒लिम् । याभिः॑ । वि॒त्तऽजा॑निम् । दु॒व॒स्यथः॑ ।
याभिः॑ । विऽअ॑श्वम् । उ॒त । पृथि॑म् । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
याभिः । वम्रम् । विऽपिपानम् । उपऽस्तुतम् । कलिम् । याभिः । वित्तऽजानिम् । दुवस्यथः ।
याभिः । विऽअश्वम् । उत । पृथिम् । आवतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥
yā́bhiḥ ǀ vamrám ǀ vi-pipānám ǀ upa-stutám ǀ kalím ǀ yā́bhiḥ ǀ vittá-jānim ǀ duvasyáthaḥ ǀ
yā́bhiḥ ǀ ví-aśvam ǀ utá ǀ pṛ́thim ǀ ā́vatam ǀ tā́bhiḥ ǀ ūṃ íti ǀ sú ǀ ūtí-bhiḥ ǀ aśvinā ǀ ā́ ǀ gatam ǁ
yābhiḥ ǀ vamram ǀ vi-pipānam ǀ upa-stutam ǀ kalim ǀ yābhiḥ ǀ vitta-jānim ǀ duvasyathaḥ ǀ
yābhiḥ ǀ vi-aśvam ǀ uta ǀ pṛthim ǀ āvatam ǀ tābhiḥ ǀ ūṃ iti ǀ su ǀ ūti-bhiḥ ǀ aśvinā ǀ ā ǀ gatam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.112.15
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.7.35.05
- Maṇḍala · Anuvāka · Ṛk
- 1.16.060
- Devatā देवता
- 1: Divaḥ, Pṛthivī (Heaven, Earth) (A), Agni (B); Aśvins (Cd); 2-25: Aśvins
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.