Ṛgveda · Maṇḍala 1 · Sūkta 112
Ṛk 1.112.8
Saṃhitā
याभिः॒ शची॑भिर्वृषणा परा॒वृजं॒ प्रांधं श्रो॒णं चक्ष॑स॒ एत॑वे कृ॒थः ।
याभि॒र्वर्ति॑कां ग्रसि॒ताममुं॑चतं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥
याभिः शचीभिर् वृषणा परावृजम् प्रान्धं श्रोणं चक्षस एतवे कृथः |
याभिर् वर्तिकां ग्रसिताम् अमुञ्चतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ||
yā́bhiḥ śácībhirvṛṣaṇā parāvṛ́jam prā́ndhám śroṇám cákṣasa étave kṛtháḥ ǀ
yā́bhirvártikām grasitā́mámuñcatam tā́bhirū ṣú ūtíbhiraśvinā́ gatam ǁ
yābhiḥ śacībhir vṛṣaṇā parāvṛjam prāndhaṃ śroṇaṃ cakṣasa etave kṛthaḥ |
yābhir vartikāṃ grasitām amuñcataṃ tābhir ū ṣu ūtibhir aśvinā gatam ||
Padapāṭha
याभिः॑ । शची॑भिः । वृ॒ष॒णा॒ । प॒रा॒ऽवृज॑म् । प्र । अ॒न्धम् । श्रो॒णम् । चक्ष॑से । एत॑वे । कृ॒थः ।
याभिः॑ । वर्ति॑काम् । ग्र॒सि॒ताम् । अमु॑ञ्चतम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
याभिः । शचीभिः । वृषणा । पराऽवृजम् । प्र । अन्धम् । श्रोणम् । चक्षसे । एतवे । कृथः ।
याभिः । वर्तिकाम् । ग्रसिताम् । अमुञ्चतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥
yā́bhiḥ ǀ śácībhiḥ ǀ vṛṣaṇā ǀ parā-vṛ́jam ǀ prá ǀ andhám ǀ śroṇám ǀ cákṣase ǀ étave ǀ kṛtháḥ ǀ
yā́bhiḥ ǀ vártikām ǀ grasitā́m ǀ ámuñcatam ǀ tā́bhiḥ ǀ ūṃ íti ǀ sú ǀ ūtí-bhiḥ ǀ aśvinā ǀ ā́ ǀ gatam ǁ
yābhiḥ ǀ śacībhiḥ ǀ vṛṣaṇā ǀ parā-vṛjam ǀ pra ǀ andham ǀ śroṇam ǀ cakṣase ǀ etave ǀ kṛthaḥ ǀ
yābhiḥ ǀ vartikām ǀ grasitām ǀ amuñcatam ǀ tābhiḥ ǀ ūṃ iti ǀ su ǀ ūti-bhiḥ ǀ aśvinā ǀ ā ǀ gatam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.112.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.7.34.03
- Maṇḍala · Anuvāka · Ṛk
- 1.16.053
- Devatā देवता
- 1: Divaḥ, Pṛthivī (Heaven, Earth) (A), Agni (B); Aśvins (Cd); 2-25: Aśvins
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.