Ṛgveda · Maṇḍala 1 · Sūkta 112
Ṛk 1.112.24
Saṃhitā
अप्न॑स्वतीमश्विना॒ वाच॑म॒स्मे कृ॒तं नो॑ दस्रा वृषणा मनी॒षां ।
अ॒द्यू॒त्येऽव॑से॒ नि ह्व॑ये वां वृ॒धे च॑ नो भवतं॒ वाज॑सातौ ॥
अप्नस्वतीम् अश्विना वाचम् अस्मे कृतं नो दस्रा वृषणा मनीषाम् |
अद्यूत्ये ऽवसे नि ह्वये वां वृधे च नो भवतं वाजसातौ ||
ápnasvatīmaśvinā vā́camasmé kṛtám no dasrā vṛṣaṇā manīṣā́m ǀ
adyūtyé’vase ní hvaye vām vṛdhé ca no bhavatam vā́jasātau ǁ
apnasvatīm aśvinā vācam asme kṛtaṃ no dasrā vṛṣaṇā manīṣām |
adyūtye 'vase ni hvaye vāṃ vṛdhe ca no bhavataṃ vājasātau ||
Padapāṭha
अप्न॑स्वतीम् । अ॒श्वि॒ना॒ । वाच॑म् । अ॒स्मे इति॑ । कृ॒तम् । नः॒ । द॒स्रा॒ । वृ॒ष॒णा॒ । म॒नी॒षाम् ।
अ॒द्यू॒त्ये॑ । अव॑से । नि । ह्व॒ये॒ । वा॒म् । वृ॒धे । च॒ । नः॒ । भ॒व॒त॒म् । वाज॑ऽसातौ ॥
अप्नस्वतीम् । अश्विना । वाचम् । अस्मे इति । कृतम् । नः । दस्रा । वृषणा । मनीषाम् ।
अद्यूत्ये । अवसे । नि । ह्वये । वाम् । वृधे । च । नः । भवतम् । वाजऽसातौ ॥
ápnasvatīm ǀ aśvinā ǀ vā́cam ǀ asmé íti ǀ kṛtám ǀ naḥ ǀ dasrā ǀ vṛṣaṇā ǀ manīṣā́m ǀ
adyūtyé ǀ ávase ǀ ní ǀ hvaye ǀ vām ǀ vṛdhé ǀ ca ǀ naḥ ǀ bhavatam ǀ vā́ja-sātau ǁ
apnasvatīm ǀ aśvinā ǀ vācam ǀ asme iti ǀ kṛtam ǀ naḥ ǀ dasrā ǀ vṛṣaṇā ǀ manīṣām ǀ
adyūtye ǀ avase ǀ ni ǀ hvaye ǀ vām ǀ vṛdhe ǀ ca ǀ naḥ ǀ bhavatam ǀ vāja-sātau ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.112.24
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.7.37.04
- Maṇḍala · Anuvāka · Ṛk
- 1.16.069
- Devatā देवता
- 1: Divaḥ, Pṛthivī (Heaven, Earth) (A), Agni (B); Aśvins (Cd); 2-25: Aśvins
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.