Ṛgveda · Maṇḍala 1 · Sūkta 112
Ṛk 1.112.5
Saṃhitā
याभी॑ रे॒भं निवृ॑तं सि॒तम॒द्भ्य उद्वंद॑न॒मैर॑यतं॒ स्व॑र्दृ॒शे ।
याभिः॒ कण्वं॒ प्र सिषा॑संत॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥
याभी रेभं निवृतं सितम् अद्भ्य उद् वन्दनम् ऐरयतं स्वर् दृशे |
याभिः कण्वम् प्र सिषासन्तम् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ||
yā́bhī rebhám nívṛtam sitámadbhyá údvándanamáirayatam svárdṛśé ǀ
yā́bhiḥ káṇvam prá síṣāsantamā́vatam tā́bhirū ṣú ūtíbhiraśvinā́ gatam ǁ
yābhī rebhaṃ nivṛtaṃ sitam adbhya ud vandanam airayataṃ svar dṛśe |
yābhiḥ kaṇvam pra siṣāsantam āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam ||
Padapāṭha
याभिः॑ । रे॒भम् । निऽवृ॑तम् । सि॒तम् । अ॒त्ऽभ्यः । उत् । वन्द॑नम् । ऐर॑यतम् । स्वः॑ । दृ॒शे ।
याभिः॑ । कण्व॑म् । प्र । सिसा॑सन्तम् । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
याभिः । रेभम् । निऽवृतम् । सितम् । अत्ऽभ्यः । उत् । वन्दनम् । ऐरयतम् । स्वः । दृशे ।
याभिः । कण्वम् । प्र । सिसासन्तम् । आवतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥
yā́bhiḥ ǀ rebhám ǀ ní-vṛtam ǀ sitám ǀ at-bhyáḥ ǀ út ǀ vándanam ǀ áirayatam ǀ sváḥ ǀ dṛśé ǀ
yā́bhiḥ ǀ káṇvam ǀ prá ǀ sísāsantam ǀ ā́vatam ǀ tā́bhiḥ ǀ ūṃ íti ǀ sú ǀ ūtí-bhiḥ ǀ aśvinā ǀ ā́ ǀ gatam ǁ
yābhiḥ ǀ rebham ǀ ni-vṛtam ǀ sitam ǀ at-bhyaḥ ǀ ut ǀ vandanam ǀ airayatam ǀ svaḥ ǀ dṛśe ǀ
yābhiḥ ǀ kaṇvam ǀ pra ǀ sisāsantam ǀ āvatam ǀ tābhiḥ ǀ ūṃ iti ǀ su ǀ ūti-bhiḥ ǀ aśvinā ǀ ā ǀ gatam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.112.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.7.33.05
- Maṇḍala · Anuvāka · Ṛk
- 1.16.050
- Devatā देवता
- 1: Divaḥ, Pṛthivī (Heaven, Earth) (A), Agni (B); Aśvins (Cd); 2-25: Aśvins
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.