Ṛgveda · Maṇḍala 1 · Sūkta 112
Ṛk 1.112.23
Saṃhitā
याभिः॒ कुत्स॑मार्जुने॒यं श॑तक्रतू॒ प्र तु॒र्वीतिं॒ प्र च॑ द॒भीति॒माव॑तं ।
याभि॑र्ध्व॒संतिं॑ पुरु॒षंति॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तं ॥
याभिः कुत्सम् आर्जुनेयं शतक्रतू प्र तुर्वीतिम् प्र च दभीतिम् आवतम् |
याभिर् ध्वसन्तिम् पुरुषन्तिम् आवतं ताभिर् ऊ षु ऊतिभिर् अश्विना गतम् ||
yā́bhiḥ kútsamārjuneyám śatakratū prá turvī́tim prá ca dabhī́timā́vatam ǀ
yā́bhirdhvasántim puruṣántimā́vatam tā́bhirū ṣú ūtíbhiraśvinā́ gatam ǁ
yābhiḥ kutsam ārjuneyaṃ śatakratū pra turvītim pra ca dabhītim āvatam |
yābhir dhvasantim puruṣantim āvataṃ tābhir ū ṣu ūtibhir aśvinā gatam ||
Padapāṭha
याभिः॑ । कुत्स॑म् । आ॒र्जु॒ने॒यम् । श॒त॒क्र॒तू॒ इति॑ शतऽक्रतू । प्र । तु॒र्वीति॑म् । प्र । च॒ । द॒भीति॑म् । आव॑तम् ।
याभिः॑ । ध्व॒सन्ति॑म् । पु॒रु॒ऽसन्ति॑म् । आव॑तम् । ताभिः॑ । ऊं॒ इति॑ । सु । ऊ॒तिऽभिः॑ । अ॒श्वि॒ना॒ । आ । ग॒त॒म् ॥
याभिः । कुत्सम् । आर्जुनेयम् । शतक्रतू इति शतऽक्रतू । प्र । तुर्वीतिम् । प्र । च । दभीतिम् । आवतम् ।
याभिः । ध्वसन्तिम् । पुरुऽसन्तिम् । आवतम् । ताभिः । ऊं इति । सु । ऊतिऽभिः । अश्विना । आ । गतम् ॥
yā́bhiḥ ǀ kútsam ǀ ārjuneyám ǀ śatakratū íti śata-kratū ǀ prá ǀ turvī́tim ǀ prá ǀ ca ǀ dabhī́tim ǀ ā́vatam ǀ
yā́bhiḥ ǀ dhvasántim ǀ puru-sántim ǀ ā́vatam ǀ tā́bhiḥ ǀ ūṃ íti ǀ sú ǀ ūtí-bhiḥ ǀ aśvinā ǀ ā́ ǀ gatam ǁ
yābhiḥ ǀ kutsam ǀ ārjuneyam ǀ śatakratū iti śata-kratū ǀ pra ǀ turvītim ǀ pra ǀ ca ǀ dabhītim ǀ āvatam ǀ
yābhiḥ ǀ dhvasantim ǀ puru-santim ǀ āvatam ǀ tābhiḥ ǀ ūṃ iti ǀ su ǀ ūti-bhiḥ ǀ aśvinā ǀ ā ǀ gatam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.112.23
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.7.37.03
- Maṇḍala · Anuvāka · Ṛk
- 1.16.068
- Devatā देवता
- 1: Divaḥ, Pṛthivī (Heaven, Earth) (A), Agni (B); Aśvins (Cd); 2-25: Aśvins
- Ṛṣi ऋषि
- Kutsa Āṅgirasa
- Chandas छन्दस्
- Jagatī, Triṣṭubh
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.