Ṛgveda · Maṇḍala 10 · Sūkta 177

Ṛk 10.177.3

Māyābhedaḥ · Pataṅga Prājāpatya

The whole sūkta Link

Saṃhitā

अप॑श्यं गो॒पामनि॑पद्यमान॒मा च॒ परा॑ च प॒थिभि॒श्चरं॑तं ।
स स॒ध्रीचीः॒ स विषू॑ची॒र्वसा॑न॒ आ व॑रीवर्ति॒ भुव॑नेष्वं॒तः ॥

अपश्यं गोपाम् अनिपद्यमानम् आ च परा च पथिभिश् चरन्तम् |
स सध्रीचीः स विषूचीर् वसान आ वरीवर्ति भुवनेष्व् अन्तः ||

ápaśyam gopā́mánipadyamānamā́ ca párā ca pathíbhiścárantam ǀ
sá sadhrī́cīḥ sá víṣūcīrvásāna ā́ varīvarti bhúvaneṣvantáḥ ǁ

apaśyaṃ gopām anipadyamānam ā ca parā ca pathibhiś carantam |
sa sadhrīcīḥ sa viṣūcīr vasāna ā varīvarti bhuvaneṣv antaḥ ||

Padapāṭha

अप॑श्यम् । गो॒पाम् । अनि॑ऽपद्यमानम् । आ । च॒ । परा॑ । च॒ । प॒थिऽभिः॑ । चर॑न्तम् ।
सः । स॒ध्रीचीः॑ । सः । विषू॑चीः । वसा॑नः । आ । व॒री॒व॒र्ति॒ । भुव॑नेषु । अ॒न्तरिति॑ ॥

अपश्यम् । गोपाम् । अनिऽपद्यमानम् । आ । च । परा । च । पथिऽभिः । चरन्तम् ।
सः । सध्रीचीः । सः । विषूचीः । वसानः । आ । वरीवर्ति । भुवनेषु । अन्तरिति ॥

ápaśyam ǀ gopā́m ǀ áni-padyamānam ǀ ā́ ǀ ca ǀ párā ǀ ca ǀ pathí-bhiḥ ǀ cárantam ǀ
sáḥ ǀ sadhrī́cīḥ ǀ sáḥ ǀ víṣūcīḥ ǀ vásānaḥ ǀ ā́ ǀ varīvarti ǀ bhúvaneṣu ǀ antáríti ǁ

apaśyam ǀ gopām ǀ ani-padyamānam ǀ ā ǀ ca ǀ parā ǀ ca ǀ pathi-bhiḥ ǀ carantam ǀ
saḥ ǀ sadhrīcīḥ ǀ saḥ ǀ viṣūcīḥ ǀ vasānaḥ ǀ ā ǀ varīvarti ǀ bhuvaneṣu ǀ antariti ǁ

References

Maṇḍala · Sūkta · Ṛk
10.177.03
Aṣṭaka · Adhyāya · Varga · Ṛk
8.8.35.03
Maṇḍala · Anuvāka · Ṛk
10.12.124
Devatā देवता
Māyābhedaḥ
Ṛṣi ऋषि
Pataṅga Prājāpatya
Chandas छन्दस्
Triṣṭubh, Jagatī
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.177.3

Interpretations

Sāyaṇa

उपोद्घातः

प्रवर्ग्येऽभीष्टवेऽपश्यं गोपमित्येशा। सूत्रितं च। अपश्यं गोपामनिपद्यमानं स्रक्वे द्रप्सस्य। आ. ४-६। इति॥

व्याख्यातेयमस्यवामीयसूक्ते। १-१६४-३१। गोपां गोपयितारमादित्यमपश्यं। अज्ञासिषं। एष हि सर्वाणि भूतजातान्युदयास्तमयादिकर्मणा गोपायति। कीदृशं। अनिपद्यमानमुच्चैर्गच्छन्तम्। न ह्यसौ कदाच्न्नेचैः पद्यते। पथिभिराकाशमर्गैः पुर्वाह्ण आ चरन्तमस्मानभिलक्ष्य गच्छन्तं सायं समये परा चरन्तम्। पराङ्मुखं गच्छन्तम्। प्रकारद्वयसमुच्चयार्थौ चशब्दौ। स सूर्यः सध्रीचीः सहाञ्चन्तीः विषुचीर्विविधं पृथक्पृथगञ्चन्तीः स्वस्वव्यापाराय गच्छन्तीः। प्राच्याद्या महादिशः सध्रीच्यो विषूच्यः कोणदिशः। वसानः स्वभासाच्छादयन् प्रकाशयन्भुवनेषु लोकेष्वन्तर्मध्य आ वरीवर्ति। पुनपुनरुद्यन्नस्तं गच्छान्नावर्तते। यद्वा। गोपां शरीरस्य गोपयितारमनिपद्यमानमविनाशनमविपन्नमा च परा चाभिमुखेन च पराङ्मुखेन च पथिभिर्नाडीलक्षणैर्मार्गैश्चरन्तं शरीरे वर्तमानं प्राणमपश्यं। अहमदर्शम्॥३॥