Ṛgveda · Maṇḍala 10 · Sūkta 178
Ṛk 10.178.1
Saṃhitā
त्यमू॒ षु वा॒जिनं॑ दे॒वजू॑तं स॒हावा॑नं तरु॒तारं॒ रथा॑नां ।
अरि॑ष्टनेमिं पृत॒नाज॑मा॒शुं स्व॒स्तये॒ तार्क्ष्य॑मि॒हा हु॑वेम ॥
त्यम् ऊ षु वाजिनं देवजूतं सहावानं तरुतारं रथानाम् |
अरिष्टनेमिम् पृतनाजम् आशुं स्वस्तये तार्क्ष्यम् इहा हुवेम ||
tyámū ṣú vājínam devájūtam sahā́vānam tarutā́ram ráthānām ǀ
áriṣṭanemim pṛtanā́jamāśúm svastáye tā́rkṣyamihā́ huvema ǁ
tyam ū ṣu vājinaṃ devajūtaṃ sahāvānaṃ tarutāraṃ rathānām |
ariṣṭanemim pṛtanājam āśuṃ svastaye tārkṣyam ihā huvema ||
Padapāṭha
त्यम् । ऊं॒ इति॑ । सु । वा॒जिन॑म् । दे॒वऽजू॑तम् । स॒हऽवा॑नम् । त॒रु॒तार॑म् । रथा॑नाम् ।
अरि॑ष्टऽनेमिम् । पृ॒त॒नाज॑म् । आ॒शुम् । स्व॒स्तये॑ । तार्क्ष्य॑म् । इ॒ह । हु॒वे॒म॒ ॥
त्यम् । ऊं इति । सु । वाजिनम् । देवऽजूतम् । सहऽवानम् । तरुतारम् । रथानाम् ।
अरिष्टऽनेमिम् । पृतनाजम् । आशुम् । स्वस्तये । तार्क्ष्यम् । इह । हुवेम ॥
tyám ǀ ūṃ íti ǀ sú ǀ vājínam ǀ devá-jūtam ǀ sahá-vānam ǀ tarutā́ram ǀ ráthānām ǀ
áriṣṭa-nemim ǀ pṛtanā́jam ǀ āśúm ǀ svastáye ǀ tā́rkṣyam ǀ ihá ǀ huvema ǁ
tyam ǀ ūṃ iti ǀ su ǀ vājinam ǀ deva-jūtam ǀ saha-vānam ǀ tarutāram ǀ rathānām ǀ
ariṣṭa-nemim ǀ pṛtanājam ǀ āśum ǀ svastaye ǀ tārkṣyam ǀ iha ǀ huvema ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.178.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.8.36.01
- Maṇḍala · Anuvāka · Ṛk
- 10.12.125
- Devatā देवता
- Tārkṣya
- Ṛṣi ऋषि
- Ariṣṭanemi Tārkṣya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.