Ṛgveda · Maṇḍala 10 · Sūkta 183

Ṛk 10.183.3

Anvṛcam Yajamānayajamānapatnīhotrāśiṣaḥ · Prajāvat Prājāpatya

The whole sūkta Link

Saṃhitā

अ॒हं गर्भ॑मदधा॒मोष॑धीष्व॒हं विश्वे॑षु॒ भुव॑नेष्वं॒तः ।
अ॒हं प्र॒जा अ॑जनयं पृथि॒व्याम॒हं जनि॑भ्यो अप॒रीषु॑ पु॒त्रान् ॥

अहं गर्भम् अदधाम् ओषधीष्व् अहं विश्वेषु भुवनेष्व् अन्तः |
अहम् प्रजा अजनयम् पृथिव्याम् अहं जनिभ्यो अपरीषु पुत्रान् ||

ahám gárbhamadadhāmóṣadhīṣvahám víśveṣu bhúvaneṣvantáḥ ǀ
ahám prajā́ ajanayam pṛthivyā́mahám jánibhyo aparī́ṣu putrā́n ǁ

ahaṃ garbham adadhām oṣadhīṣv ahaṃ viśveṣu bhuvaneṣv antaḥ |
aham prajā ajanayam pṛthivyām ahaṃ janibhyo aparīṣu putrān ||

Padapāṭha

अ॒हम् । गर्भ॑म् । अ॒द॒धा॒म् । ओष॑धीषु । अ॒हम् । विश्वे॑षु । भुव॑नेषु । अ॒न्तरिति॑ ।
अ॒हम् । प्र॒ऽजाः । अ॒ज॒न॒य॒म् । पृ॒थि॒व्याम् । अ॒हम् । जनि॑ऽभ्यः । अ॒प॒रीषु॑ । पु॒त्रान् ॥

अहम् । गर्भम् । अदधाम् । ओषधीषु । अहम् । विश्वेषु । भुवनेषु । अन्तरिति ।
अहम् । प्रऽजाः । अजनयम् । पृथिव्याम् । अहम् । जनिऽभ्यः । अपरीषु । पुत्रान् ॥

ahám ǀ gárbham ǀ adadhām ǀ óṣadhīṣu ǀ ahám ǀ víśveṣu ǀ bhúvaneṣu ǀ antáríti ǀ
ahám ǀ pra-jā́ḥ ǀ ajanayam ǀ pṛthivyā́m ǀ ahám ǀ jáni-bhyaḥ ǀ aparī́ṣu ǀ putrā́n ǁ

aham ǀ garbham ǀ adadhām ǀ oṣadhīṣu ǀ aham ǀ viśveṣu ǀ bhuvaneṣu ǀ antariti ǀ
aham ǀ pra-jāḥ ǀ ajanayam ǀ pṛthivyām ǀ aham ǀ jani-bhyaḥ ǀ aparīṣu ǀ putrān ǁ

References

Maṇḍala · Sūkta · Ṛk
10.183.03
Aṣṭaka · Adhyāya · Varga · Ṛk
8.8.41.03
Maṇḍala · Anuvāka · Ṛk
10.12.142
Devatā देवता
Anvṛcam Yajamānayajamānapatnīhotrāśiṣaḥ
Ṛṣi ऋषि
Prajāvat Prājāpatya
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.183.3

Interpretations

Sāyaṇa

अहं होतौषधीषु शाल्यादिषु फलार्थं गर्भमदधाम्। धारयामि। विश्वेषु सर्वेष्वन्येष्वपि भुवनेषु भूतजातेष्वन्तर्मध्येऽहमेव गर्भं धारयामि। तथा पृथिव्यां भूम्यां प्रजाः सर्वान्मनुश्यानहमजनयम्। जनयामि। जनिभ्यो जायाभ्योऽपरीष्टन्यास्वपि स्त्रीषु पुत्रानहमजनयम्। जनयामि। मत्साध्येन यागेन सर्वस्योत्पत्तेरहं सर्वजनहेतुर्भवामीत्यर्थः॥३॥