Ṛgveda · Maṇḍala 10 · Sūkta 188

Ṛk 10.188.2

Agni Jātavedas · Śyena Āgneya

The whole sūkta Link

Saṃhitā

अ॒स्य प्र जा॒तवे॑दसो॒ विप्र॑वीरस्य मी॒ळ्हुषः॑ ।
म॒हीमि॑यर्मि सुष्टु॒तिं ॥

अस्य प्र जातवेदसो विप्रवीरस्य मीऌहुषः |
महीम् इयर्मि सुष्टुतिम् ||

asyá prá jātávedaso vípravīrasya mīḷhúṣaḥ ǀ
mahī́miyarmi suṣṭutím ǁ

asya pra jātavedaso vipravīrasya mīḷhuṣaḥ |
mahīm iyarmi suṣṭutim ||

Padapāṭha

अ॒स्य । प्र । जा॒तऽवे॑दसः । विप्र॑ऽवीरस्य । मी॒ळ्हुषः॑ ।
म॒हीम् । इ॒य॒र्मि॒ । सु॒ऽस्तु॒तिम् ॥

अस्य । प्र । जातऽवेदसः । विप्रऽवीरस्य । मीळ्हुषः ।
महीम् । इयर्मि । सुऽस्तुतिम् ॥

asyá ǀ prá ǀ jātá-vedasaḥ ǀ vípra-vīrasya ǀ mīḷhúṣaḥ ǀ
mahī́m ǀ iyarmi ǀ su-stutím ǁ

asya ǀ pra ǀ jāta-vedasaḥ ǀ vipra-vīrasya ǀ mīḷhuṣaḥ ǀ
mahīm ǀ iyarmi ǀ su-stutim ǁ

References

Maṇḍala · Sūkta · Ṛk
10.188.02
Aṣṭaka · Adhyāya · Varga · Ṛk
8.8.46.02
Maṇḍala · Anuvāka · Ṛk
10.12.158
Devatā देवता
Agni Jātavedas
Ṛṣi ऋषि
Śyena Āgneya
Chandas छन्दस्
Gāyatrī
Svara स्वरः
षड्जः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.188.2

Interpretations

Sāyaṇa

जातवेदसो जातानां वेदितुर्विप्रवीरस्य। विप्रा मेधाविनो यजमानावीराः पुत्रा यस्य। तादृशस्य मीळ्हुषः सेक्तुरस्याग्नेर्महीं महतीं सुष्टुतिं शोभनां स्तुतिं प्रेयर्मि। प्रेरयामि। ऋ गतौ जौहोत्यादिकः। अर्तिपिपर्त्योश्चेत्यभ्यासस्येत्वम् ॥ २ ॥