Ṛgveda · Maṇḍala 10 · Sūkta 188

Ṛk 10.188.3

Agni Jātavedas · Śyena Āgneya

The whole sūkta Link

Saṃhitā

या रुचो॑ जा॒तवे॑दसो देव॒त्रा ह॑व्य॒वाह॑नीः ।
ताभि॑र्नो य॒ज्ञमि॑न्वतु ॥

या रुचो जातवेदसो देवत्रा हव्यवाहनीः |
ताभिर् नो यज्ञम् इन्वतु ||

yā́ rúco jātávedaso devatrā́ havyavā́hanīḥ ǀ
tā́bhirno yajñáminvatu ǁ

yā ruco jātavedaso devatrā havyavāhanīḥ |
tābhir no yajñam invatu ||

Padapāṭha

याः । रुचः॑ । जा॒तऽवे॑दसः । दे॒व॒ऽत्रा । ह॒व्य॒ऽवाह॑नीः ।
ताभिः॑ । नः॒ । य॒ज्ञम् । इ॒न्व॒तु॒ ॥

याः । रुचः । जातऽवेदसः । देवऽत्रा । हव्यऽवाहनीः ।
ताभिः । नः । यज्ञम् । इन्वतु ॥

yā́ḥ ǀ rúcaḥ ǀ jātá-vedasaḥ ǀ deva-trā́ ǀ havya-vā́hanīḥ ǀ
tā́bhiḥ ǀ naḥ ǀ yajñám ǀ invatu ǁ

yāḥ ǀ rucaḥ ǀ jāta-vedasaḥ ǀ deva-trā ǀ havya-vāhanīḥ ǀ
tābhiḥ ǀ naḥ ǀ yajñam ǀ invatu ǁ

References

Maṇḍala · Sūkta · Ṛk
10.188.03
Aṣṭaka · Adhyāya · Varga · Ṛk
8.8.46.03
Maṇḍala · Anuvāka · Ṛk
10.12.159
Devatā देवता
Agni Jātavedas
Ṛṣi ऋषि
Śyena Āgneya
Chandas छन्दस्
Gāyatrī
Svara स्वरः
षड्जः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.188.3

Interpretations

Sāyaṇa

जातवेदसोऽग्नेर्या रुचो रोचमानाः कालीकरालीप्रभृतयः सप्तजिह्वा देवता देवान्प्रति। देवमनुष्यपुरुषपुरुमर्त्येभ्य इत्यादिना द्वितीयार्थे त्राप्रत्ययः। हव्यवाहनीर्हव्यानां हविषाम् वोढ्र्यः प्रापयित्र्यो भवन्ति। वा छन्दसीति जसि पूर्वसवर्णदीर्घः। ताभिर्जिह्वाभिर्नोऽस्माकं यज्ञं यागसाधनं हविरिन्वतु। देवान्प्रापयतु। इवि व्याप्तौ। इदित्त्वान्नुम्॥३॥