Ṛk 1.27.1
Saṃhitā
अश्वं॒ न त्वा॒ वार॑वंतं वं॒दध्या॑ अ॒ग्निं नमो॑भिः ।
स॒म्राजं॑तमध्व॒राणां॑ ॥
अश्वं न त्वा वारवन्तं वन्दध्या अग्निं नमोभिः |
सम्राजन्तम् अध्वराणाम् ||
áśvam ná tvā vā́ravantam vandádhyā agním námobhiḥ ǀ
samrā́jantamadhvarā́ṇām ǁ
aśvaṃ na tvā vāravantaṃ vandadhyā agniṃ namobhiḥ |
samrājantam adhvarāṇām ||
Padapāṭha
अश्व॑म् । न । त्वा॒ । वार॑ऽवन्तम् । व॒न्दध्यै॑ । अ॒ग्निम् । नमः॑ऽभिः ।
स॒म्ऽराज॑न्तम् । अ॒ध्व॒राणा॑म् ॥
अश्वम् । न । त्वा । वारऽवन्तम् । वन्दध्यै । अग्निम् । नमःऽभिः ।
सम्ऽराजन्तम् । अध्वराणाम् ॥
áśvam ǀ ná ǀ tvā ǀ vā́ra-vantam ǀ vandádhyai ǀ agním ǀ námaḥ-bhiḥ ǀ
sam-rā́jantam ǀ adhvarā́ṇām ǁ
aśvam ǀ na ǀ tvā ǀ vāra-vantam ǀ vandadhyai ǀ agnim ǀ namaḥ-bhiḥ ǀ
sam-rājantam ǀ adhvarāṇām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.027.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.2.22.01
- Maṇḍala · Anuvāka · Ṛk
- 01.06.047
- Devatā देवता
- 1-12: Agni; 13: Devāḥ
- Ṛṣi ऋषि
- Śunaḥśepa Ājīgarti
- Chandas छन्दस्
- Gāyatrī, Triṣṭubh
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.