Ṛk 1.27.7
Saṃhitā
यम॑ग्ने पृ॒त्सु मर्त्य॒मवा॒ वाजे॑षु॒ यं जु॒नाः ।
स यंता॒ शश्व॑ती॒रिषः॑ ॥
यम् अग्ने पृत्सु मर्त्यम् अवा वाजेषु यं जुनाः |
स यन्ता शश्वतीर् इषः ||
yámagne pṛtsú mártyamávā vā́jeṣu yám junā́ḥ ǀ
sá yántā śáśvatīríṣaḥ ǁ
yam agne pṛtsu martyam avā vājeṣu yaṃ junāḥ |
sa yantā śaśvatīr iṣaḥ ||
Padapāṭha
यम् । अ॒ग्ने॒ । पृ॒त्ऽसु । मर्त्य॑म् । अवाः॑ । वाजे॑षु । यम् । जु॒नाः ।
सः । यन्ता॑ । शश्व॑तीः । इषः॑ ॥
यम् । अग्ने । पृत्ऽसु । मर्त्यम् । अवाः । वाजेषु । यम् । जुनाः ।
सः । यन्ता । शश्वतीः । इषः ॥
yám ǀ agne ǀ pṛt-sú ǀ mártyam ǀ ávāḥ ǀ vā́jeṣu ǀ yám ǀ junā́ḥ ǀ
sáḥ ǀ yántā ǀ śáśvatīḥ ǀ íṣaḥ ǁ
yam ǀ agne ǀ pṛt-su ǀ martyam ǀ avāḥ ǀ vājeṣu ǀ yam ǀ junāḥ ǀ
saḥ ǀ yantā ǀ śaśvatīḥ ǀ iṣaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.027.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.2.23.02
- Maṇḍala · Anuvāka · Ṛk
- 01.06.053
- Devatā देवता
- 1-12: Agni; 13: Devāḥ
- Ṛṣi ऋषि
- Śunaḥśepa Ājīgarti
- Chandas छन्दस्
- Gāyatrī, Triṣṭubh
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.