Ṛk 1.27.3
Saṃhitā
स नो॑ दू॒राच्चा॒साच्च॒ नि मर्त्या॑दघा॒योः ।
पा॒हि सद॒मिद्वि॒श्वायुः॑ ॥
स नो दूराच् चासाच् च नि मर्त्याद् अघायोः |
पाहि सदम् इद् विश्वायुः ||
sá no dūrā́ccāsā́cca ní mártyādaghāyóḥ ǀ
pāhí sádamídviśvā́yuḥ ǁ
sa no dūrāc cāsāc ca ni martyād aghāyoḥ |
pāhi sadam id viśvāyuḥ ||
Padapāṭha
सः । नः॒ । दू॒रात् । च॒ । आ॒सात् । च॒ । नि । मर्त्या॑त् । अ॒घ॒ऽयोः ।
पा॒हि । सद॑म् । इत् । वि॒श्वऽआ॑युः ॥
सः । नः । दूरात् । च । आसात् । च । नि । मर्त्यात् । अघऽयोः ।
पाहि । सदम् । इत् । विश्वऽआयुः ॥
sáḥ ǀ naḥ ǀ dūrā́t ǀ ca ǀ āsā́t ǀ ca ǀ ní ǀ mártyāt ǀ agha-yóḥ ǀ
pāhí ǀ sádam ǀ ít ǀ viśvá-āyuḥ ǁ
saḥ ǀ naḥ ǀ dūrāt ǀ ca ǀ āsāt ǀ ca ǀ ni ǀ martyāt ǀ agha-yoḥ ǀ
pāhi ǀ sadam ǀ it ǀ viśva-āyuḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.027.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.2.22.03
- Maṇḍala · Anuvāka · Ṛk
- 01.06.049
- Devatā देवता
- 1-12: Agni; 13: Devāḥ
- Ṛṣi ऋषि
- Śunaḥśepa Ājīgarti
- Chandas छन्दस्
- Gāyatrī, Triṣṭubh
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.