Ṛk 1.27.12
Saṃhitā
स रे॒वाँ इ॑व वि॒श्पति॒र्दैव्यः॑ के॒तुः शृ॑णोतु नः ।
उ॒क्थैर॒ग्निर्बृ॒हद्भा॑नुः ॥
स रेवां इव विश्पतिर् दैव्यः केतुः शृणोतु नः |
उक्थैर् अग्निर् बृहद्भानुः ||
sá revā́m̐ iva viśpátirdáivyaḥ ketúḥ śṛṇotu naḥ ǀ
uktháiragnírbṛhádbhānuḥ ǁ
sa revāṃ iva viśpatir daivyaḥ ketuḥ śṛṇotu naḥ |
ukthair agnir bṛhadbhānuḥ ||
Padapāṭha
सः । रे॒वान्ऽइ॑व । वि॒श्पतिः॑ । दैव्यः॑ । के॒तुः । शृ॒णो॒तु॒ । नः॒ ।
उ॒क्थैः । अ॒ग्निः । बृ॒हत्ऽभा॑नुः ॥
सः । रेवान्ऽइव । विश्पतिः । दैव्यः । केतुः । शृणोतु । नः ।
उक्थैः । अग्निः । बृहत्ऽभानुः ॥
sáḥ ǀ revā́n-iva ǀ viśpátiḥ ǀ dáivyaḥ ǀ ketúḥ ǀ śṛṇotu ǀ naḥ ǀ
uktháiḥ ǀ agníḥ ǀ bṛhát-bhānuḥ ǁ
saḥ ǀ revān-iva ǀ viśpatiḥ ǀ daivyaḥ ǀ ketuḥ ǀ śṛṇotu ǀ naḥ ǀ
ukthaiḥ ǀ agniḥ ǀ bṛhat-bhānuḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.027.12
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.2.24.02
- Maṇḍala · Anuvāka · Ṛk
- 01.06.058
- Devatā देवता
- 1-12: Agni; 13: Devāḥ
- Ṛṣi ऋषि
- Śunaḥśepa Ājīgarti
- Chandas छन्दस्
- Gāyatrī, Triṣṭubh
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.