Ṛgveda · Maṇḍala 1 · Sūkta 117
Ṛk 1.117.1
Saṃhitā
मध्वः॒ सोम॑स्याश्विना॒ मदा॑य प्र॒त्नो होता वि॑वासते वां ।
ब॒र्हिष्म॑ती रा॒तिर्विश्रि॑ता॒ गीरि॒षा या॑तं नास॒त्योप॒ वाजैः॑ ॥
मध्वः सोमस्याश्विना मदाय प्रत्नो होता विवासते वाम् |
बर्हिष्मती रातिर् विश्रिता गीर् इषा यातं नासत्योप वाजैः ||
mádhvaḥ sómasyāśvinā mádāya pratnó hótā́ vivāsate vām ǀ
barhíṣmatī rātírvíśritā gī́riṣā́ yātam nāsatyópa vā́jaiḥ ǁ
madhvaḥ somasyāśvinā madāya pratno hotā vivāsate vām |
barhiṣmatī rātir viśritā gīr iṣā yātaṃ nāsatyopa vājaiḥ ||
Padapāṭha
मध्वः॑ । सोम॑स्य । अ॒श्वि॒ना॒ । मदा॑य । प्र॒त्नः । होता॑ । आ । वि॒वा॒स॒ते॒ । वा॒म् ।
ब॒र्हिष्म॑ती । रा॒तिः । विऽश्रि॑ता । गीः । इ॒षा । या॒त॒म् । ना॒स॒त्या॒ । उप॑ । वाजैः॑ ॥
मध्वः । सोमस्य । अश्विना । मदाय । प्रत्नः । होता । आ । विवासते । वाम् ।
बर्हिष्मती । रातिः । विऽश्रिता । गीः । इषा । यातम् । नासत्या । उप । वाजैः ॥
mádhvaḥ ǀ sómasya ǀ aśvinā ǀ mádāya ǀ pratnáḥ ǀ hótā ǀ ā́ ǀ vivāsate ǀ vām ǀ
barhíṣmatī ǀ rātíḥ ǀ ví-śritā ǀ gī́ḥ ǀ iṣā́ ǀ yātam ǀ nāsatyā ǀ úpa ǀ vā́jaiḥ ǁ
madhvaḥ ǀ somasya ǀ aśvinā ǀ madāya ǀ pratnaḥ ǀ hotā ǀ ā ǀ vivāsate ǀ vām ǀ
barhiṣmatī ǀ rātiḥ ǀ vi-śritā ǀ gīḥ ǀ iṣā ǀ yātam ǀ nāsatyā ǀ upa ǀ vājaiḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.117.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.13.01
- Maṇḍala · Anuvāka · Ṛk
- 1.17.026
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.