Ṛgveda · Maṇḍala 1 · Sūkta 117
Ṛk 1.117.18
Saṃhitā
शु॒नमं॒धाय॒ भर॑मह्वय॒त्सा वृ॒कीर॑श्विना वृषणा॒ नरेति॑ ।
जा॒रः क॒नीन॑ इव चक्षदा॒न ऋ॒ज्राश्वः॑ श॒तमेकं॑ च मे॒षान् ॥
शुनम् अन्धाय भरम् अह्वयत् सा वृकीर् अश्विना वृषणा नरेति |
जारः कनीन इव चक्षदान ऋज्राश्वः शतम् एकं च मेषान् ||
śunámandhā́ya bháramahvayatsā́ vṛkī́raśvinā vṛṣaṇā náréti ǀ
jāráḥ kanī́na iva cakṣadāná ṛjrā́śvaḥ śatámékam ca meṣā́n ǁ
śunam andhāya bharam ahvayat sā vṛkīr aśvinā vṛṣaṇā nareti |
jāraḥ kanīna iva cakṣadāna ṛjrāśvaḥ śatam ekaṃ ca meṣān ||
Padapāṭha
शु॒नम् । अ॒न्धाय॑ । भर॑म् । अ॒ह्व॒य॒त् । सा । वृ॒कीः । अ॒श्वि॒ना॒ । वृ॒ष॒णा॒ । नरा॑ । इति॑ ।
जा॒रः । क॒नीनः॑ऽइव । च॒क्ष॒दा॒नः । ऋ॒ज्रऽअ॑श्वः । श॒तम् । एक॑म् । च॒ । मे॒षान् ॥
शुनम् । अन्धाय । भरम् । अह्वयत् । सा । वृकीः । अश्विना । वृषणा । नरा । इति ।
जारः । कनीनःऽइव । चक्षदानः । ऋज्रऽअश्वः । शतम् । एकम् । च । मेषान् ॥
śunám ǀ andhā́ya ǀ bháram ǀ ahvayat ǀ sā́ ǀ vṛkī́ḥ ǀ aśvinā ǀ vṛṣaṇā ǀ nárā ǀ íti ǀ
jāráḥ ǀ kanī́naḥ-iva ǀ cakṣadānáḥ ǀ ṛjrá-aśvaḥ ǀ śatám ǀ ékam ǀ ca ǀ meṣā́n ǁ
śunam ǀ andhāya ǀ bharam ǀ ahvayat ǀ sā ǀ vṛkīḥ ǀ aśvinā ǀ vṛṣaṇā ǀ narā ǀ iti ǀ
jāraḥ ǀ kanīnaḥ-iva ǀ cakṣadānaḥ ǀ ṛjra-aśvaḥ ǀ śatam ǀ ekam ǀ ca ǀ meṣān ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.117.18
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.16.03
- Maṇḍala · Anuvāka · Ṛk
- 1.17.043
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.