Ṛgveda · Maṇḍala 1 · Sūkta 117
Ṛk 1.117.10
Saṃhitā
ए॒तानि॑ वां श्रव॒स्या॑ सुदानू॒ ब्रह्मां॑गू॒षं सद॑नं॒ रोद॑स्योः ।
यद्वां॑ प॒ज्रासो॑ अश्विना॒ हवं॑ते या॒तमि॒षा च॑ वि॒दुषे॑ च॒ वाजं॑ ॥
एतानि वां श्रवस्या सुदानू ब्रह्माङ्गूषं सदनं रोदस्योः |
यद् वाम् पज्रासो अश्विना हवन्ते यातम् इषा च विदुषे च वाजम् ||
etā́ni vām śravasyā́ sudānū bráhmāṅgūṣám sádanam ródasyoḥ ǀ
yádvām pajrā́so aśvinā hávante yātámiṣā́ ca vidúṣe ca vā́jam ǁ
etāni vāṃ śravasyā sudānū brahmāṅgūṣaṃ sadanaṃ rodasyoḥ |
yad vām pajrāso aśvinā havante yātam iṣā ca viduṣe ca vājam ||
Padapāṭha
ए॒तानि॑ । वा॒म् । श्र॒व॒स्या॑ । सु॒दा॒नू॒ इति॑ सुऽदानू । ब्रह्म॑ । आ॒ङ्गू॒षम् । सद॑नम् । रोद॑स्योः ।
यत् । वा॒म् । प॒ज्रासः॑ । अ॒श्वि॒ना॒ । हव॑न्ते । या॒तम् । इ॒षा । च॒ । वि॒दुषे॑ । च॒ । वाज॑म् ॥
एतानि । वाम् । श्रवस्या । सुदानू इति सुऽदानू । ब्रह्म । आङ्गूषम् । सदनम् । रोदस्योः ।
यत् । वाम् । पज्रासः । अश्विना । हवन्ते । यातम् । इषा । च । विदुषे । च । वाजम् ॥
etā́ni ǀ vām ǀ śravasyā́ ǀ sudānū íti su-dānū ǀ bráhma ǀ āṅgūṣám ǀ sádanam ǀ ródasyoḥ ǀ
yát ǀ vām ǀ pajrā́saḥ ǀ aśvinā ǀ hávante ǀ yātám ǀ iṣā́ ǀ ca ǀ vidúṣe ǀ ca ǀ vā́jam ǁ
etāni ǀ vām ǀ śravasyā ǀ sudānū iti su-dānū ǀ brahma ǀ āṅgūṣam ǀ sadanam ǀ rodasyoḥ ǀ
yat ǀ vām ǀ pajrāsaḥ ǀ aśvinā ǀ havante ǀ yātam ǀ iṣā ǀ ca ǀ viduṣe ǀ ca ǀ vājam ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.117.10
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.14.05
- Maṇḍala · Anuvāka · Ṛk
- 1.17.035
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.