Ṛgveda · Maṇḍala 1 · Sūkta 117
Ṛk 1.117.17
Saṃhitā
श॒तं मे॒षान्वृ॒क्ये॑ मामहा॒नं तमः॒ प्रणी॑त॒मशि॑वेन पि॒त्रा ।
आक्षी ऋ॒ज्राश्वे॑ अश्विनावधत्तं॒ ज्योति॑रं॒धाय॑ चक्रथुर्वि॒चक्षे॑ ॥
शतम् मेषान् वृक्ये मामहानं तमः प्रणीतम् अशिवेन पित्रा |
आक्षी ऋज्राश्वे अश्विनाव् अधत्तं ज्योतिर् अन्धाय चक्रथुर् विचक्षे ||
śatám meṣā́nvṛkyé māmahānám támaḥ práṇītamáśivena pitrā́ ǀ
ā́kṣī́ ṛjrā́śve aśvināvadhattam jyótirandhā́ya cakrathurvicákṣe ǁ
śatam meṣān vṛkye māmahānaṃ tamaḥ praṇītam aśivena pitrā |
ākṣī ṛjrāśve aśvināv adhattaṃ jyotir andhāya cakrathur vicakṣe ||
Padapāṭha
श॒तम् । मे॒षान् । वृ॒क्ये॑ । म॒म॒हा॒नम् । तमः॑ । प्रऽनी॑तम् । अशि॑वेन । पि॒त्रा ।
आ । अ॒क्षी इति॑ । ऋ॒ज्रऽअ॑श्वे । अ॒श्वि॒नौ॒ । अ॒ध॒त्त॒म् । ज्योतिः॑ । अ॒न्धाय॑ । च॒क्र॒थुः॒ । वि॒ऽचक्षे॑ ॥
शतम् । मेषान् । वृक्ये । ममहानम् । तमः । प्रऽनीतम् । अशिवेन । पित्रा ।
आ । अक्षी इति । ऋज्रऽअश्वे । अश्विनौ । अधत्तम् । ज्योतिः । अन्धाय । चक्रथुः । विऽचक्षे ॥
śatám ǀ meṣā́n ǀ vṛkyé ǀ mamahānám ǀ támaḥ ǀ prá-nītam ǀ áśivena ǀ pitrā́ ǀ
ā́ ǀ akṣī́ íti ǀ ṛjrá-aśve ǀ aśvinau ǀ adhattam ǀ jyótiḥ ǀ andhā́ya ǀ cakrathuḥ ǀ vi-cákṣe ǁ
śatam ǀ meṣān ǀ vṛkye ǀ mamahānam ǀ tamaḥ ǀ pra-nītam ǀ aśivena ǀ pitrā ǀ
ā ǀ akṣī iti ǀ ṛjra-aśve ǀ aśvinau ǀ adhattam ǀ jyotiḥ ǀ andhāya ǀ cakrathuḥ ǀ vi-cakṣe ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.117.17
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.16.02
- Maṇḍala · Anuvāka · Ṛk
- 1.17.042
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.