Ṛgveda · Maṇḍala 1 · Sūkta 117
Ṛk 1.117.25
Saṃhitā
ए॒तानि॑ वामश्विना वी॒र्या॑णि॒ प्र पू॒र्व्याण्या॒यवो॑ऽवोचन् ।
ब्रह्म॑ कृ॒ण्वंतो॑ वृषणा यु॒वभ्यां॑ सु॒वीरा॑सो वि॒दथ॒मा व॑देम ॥
एतानि वाम् अश्विना वीर्याणि प्र पूर्व्याण्य् आयवो ऽवोचन् |
ब्रह्म कृण्वन्तो वृषणा युवभ्यां सुवीरासो विदथम् आ वदेम ||
etā́ni vāmaśvinā vīryā́ṇi prá pūrvyā́ṇyāyávo’vocan ǀ
bráhma kṛṇvánto vṛṣaṇā yuvábhyām suvī́rāso vidáthamā́ vadema ǁ
etāni vām aśvinā vīryāṇi pra pūrvyāṇy āyavo 'vocan |
brahma kṛṇvanto vṛṣaṇā yuvabhyāṃ suvīrāso vidatham ā vadema ||
Padapāṭha
ए॒तानि॑ । वा॒म् । अ॒श्वि॒ना॒ । वी॒र्या॑णि । प्र । पू॒र्व्याणि॑ । आ॒यवः॑ । अ॒वो॒च॒न् ।
ब्रह्म॑ । कृ॒ण्वन्तः॑ । वृ॒ष॒णा॒ । यु॒वऽभ्या॑म् । सु॒ऽवीरा॑सः । वि॒दथ॑म् । आ । व॒दे॒म॒ ॥
एतानि । वाम् । अश्विना । वीर्याणि । प्र । पूर्व्याणि । आयवः । अवोचन् ।
ब्रह्म । कृण्वन्तः । वृषणा । युवऽभ्याम् । सुऽवीरासः । विदथम् । आ । वदेम ॥
etā́ni ǀ vām ǀ aśvinā ǀ vīryā́ṇi ǀ prá ǀ pūrvyā́ṇi ǀ āyávaḥ ǀ avocan ǀ
bráhma ǀ kṛṇvántaḥ ǀ vṛṣaṇā ǀ yuvá-bhyām ǀ su-vī́rāsaḥ ǀ vidátham ǀ ā́ ǀ vadema ǁ
etāni ǀ vām ǀ aśvinā ǀ vīryāṇi ǀ pra ǀ pūrvyāṇi ǀ āyavaḥ ǀ avocan ǀ
brahma ǀ kṛṇvantaḥ ǀ vṛṣaṇā ǀ yuva-bhyām ǀ su-vīrāsaḥ ǀ vidatham ǀ ā ǀ vadema ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.117.25
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.17.05
- Maṇḍala · Anuvāka · Ṛk
- 1.17.050
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- पञ्चमः
Text and interpretations from the Ṛgveda database of theveda.org.in.