Ṛgveda · Maṇḍala 1 · Sūkta 117
Ṛk 1.117.5
Saṃhitā
सु॒षु॒प्वांसं॒ न निर्ऋ॑तेरु॒पस्थे॒ सूर्यं॒ न द॑स्रा॒ तम॑सि क्षि॒यंतं॑ ।
शु॒भे रु॒क्मं न द॑र्श॒तं निखा॑त॒मुदू॑पथुरश्विना॒ वंद॑नाय ॥
सुषुप्वांसं न निरृतेर् उपस्थे सूर्यं न दस्रा तमसि क्षियन्तम् |
शुभे रुक्मं न दर्शतं निखातम् उद् ऊपथुर् अश्विना वन्दनाय ||
suṣupvā́ṃsam ná nírṛterupásthe sū́ryam ná dasrā támasi kṣiyántam ǀ
śubhé rukmám ná darśatám níkhātamúdūpathuraśvinā vándanāya ǁ
suṣupvāṃsaṃ na nirṛter upasthe sūryaṃ na dasrā tamasi kṣiyantam |
śubhe rukmaṃ na darśataṃ nikhātam ud ūpathur aśvinā vandanāya ||
Padapāṭha
सु॒सु॒प्वांस॑म् । न । निःऽऋ॑तेः । उ॒पऽस्थे॑ । सूर्य॑म् । न । द॒स्रा॒ । तम॑सि । क्षि॒यन्त॑म् ।
शु॒भे । रु॒क्मम् । न । द॒र्श॒तम् । निऽखा॑तम् । उत् । ऊ॒प॒थुः॒ । अ॒श्वि॒ना॒ । वन्द॑नाय ॥
सुसुप्वांसम् । न । निःऽऋतेः । उपऽस्थे । सूर्यम् । न । दस्रा । तमसि । क्षियन्तम् ।
शुभे । रुक्मम् । न । दर्शतम् । निऽखातम् । उत् । ऊपथुः । अश्विना । वन्दनाय ॥
susupvā́ṃsam ǀ ná ǀ níḥ-ṛteḥ ǀ upá-sthe ǀ sū́ryam ǀ ná ǀ dasrā ǀ támasi ǀ kṣiyántam ǀ
śubhé ǀ rukmám ǀ ná ǀ darśatám ǀ ní-khātam ǀ út ǀ ūpathuḥ ǀ aśvinā ǀ vándanāya ǁ
susupvāṃsam ǀ na ǀ niḥ-ṛteḥ ǀ upa-sthe ǀ sūryam ǀ na ǀ dasrā ǀ tamasi ǀ kṣiyantam ǀ
śubhe ǀ rukmam ǀ na ǀ darśatam ǀ ni-khātam ǀ ut ǀ ūpathuḥ ǀ aśvinā ǀ vandanāya ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.117.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.13.05
- Maṇḍala · Anuvāka · Ṛk
- 1.17.030
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.