Ṛgveda · Maṇḍala 1 · Sūkta 117
Ṛk 1.117.16
Saṃhitā
अजो॑हवीदश्विना॒ वर्ति॑का वामा॒स्नो यत्सी॒ममुं॑चतं॒ वृक॑स्य ।
वि ज॒युषा॑ ययथुः॒ सान्वद्रे॑र्जा॒तं वि॒ष्वाचो॑ अहतं वि॒षेण॑ ॥
अजोहवीद् अश्विना वर्तिका वाम् आस्नो यत् सीम् अमुञ्चतं वृकस्य |
वि जयुषा ययथुः सान्व् अद्रेर् जातं विष्वाचो अहतं विषेण ||
ájohavīdaśvinā vártikā vāmāsnó yátsīmámuñcatam vṛ́kasya ǀ
ví jayúṣā yayathuḥ sā́nvádrerjātám viṣvā́co ahatam viṣéṇa ǁ
ajohavīd aśvinā vartikā vām āsno yat sīm amuñcataṃ vṛkasya |
vi jayuṣā yayathuḥ sānv adrer jātaṃ viṣvāco ahataṃ viṣeṇa ||
Padapāṭha
अजो॑हवीत् । अ॒श्वि॒ना॒ । वर्ति॑का । वा॒म् । आ॒स्नः । यत् । सी॒म् । अमु॑ञ्चतम् । वृक॑स्य ।
वि । ज॒युषा॑ । य॒य॒थुः॒ । सानु॑ । अद्रेः॑ । जा॒तम् । वि॒ष्वाचः॑ । अ॒ह॒त॒म् । वि॒षेण॑ ॥
अजोहवीत् । अश्विना । वर्तिका । वाम् । आस्नः । यत् । सीम् । अमुञ्चतम् । वृकस्य ।
वि । जयुषा । ययथुः । सानु । अद्रेः । जातम् । विष्वाचः । अहतम् । विषेण ॥
ájohavīt ǀ aśvinā ǀ vártikā ǀ vām ǀ āsnáḥ ǀ yát ǀ sīm ǀ ámuñcatam ǀ vṛ́kasya ǀ
ví ǀ jayúṣā ǀ yayathuḥ ǀ sā́nu ǀ ádreḥ ǀ jātám ǀ viṣvā́caḥ ǀ ahatam ǀ viṣéṇa ǁ
ajohavīt ǀ aśvinā ǀ vartikā ǀ vām ǀ āsnaḥ ǀ yat ǀ sīm ǀ amuñcatam ǀ vṛkasya ǀ
vi ǀ jayuṣā ǀ yayathuḥ ǀ sānu ǀ adreḥ ǀ jātam ǀ viṣvācaḥ ǀ ahatam ǀ viṣeṇa ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.117.16
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.16.01
- Maṇḍala · Anuvāka · Ṛk
- 1.17.041
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.