Ṛgveda · Maṇḍala 1 · Sūkta 117
Ṛk 1.117.20
Saṃhitā
अधे॑नुं दस्रा स्त॒र्यं१॒॑ विष॑क्ता॒मपि॑न्वतं श॒यवे॑ अश्विना॒ गां ।
यु॒वं शची॑भिर्विम॒दाय॑ जा॒यां न्यू॑हथुः पुरुमि॒त्रस्य॒ योषां॑ ॥
अधेनुं दस्रा स्तर्यं विषक्ताम् अपिन्वतं शयवे अश्विना गाम् |
युवं शचीभिर् विमदाय जायां न्य् ऊहथुः पुरुमित्रस्य योषाम् ||
ádhenum dasrā staryám víṣaktāmápinvatam śayáve aśvinā gā́m ǀ
yuvám śácībhirvimadā́ya jāyā́m nyū́hathuḥ purumitrásya yóṣām ǁ
adhenuṃ dasrā staryaṃ viṣaktām apinvataṃ śayave aśvinā gām |
yuvaṃ śacībhir vimadāya jāyāṃ ny ūhathuḥ purumitrasya yoṣām ||
Padapāṭha
अधे॑नुम् । द॒स्रा॒ । स्त॒र्य॑म् । विऽस॑क्ताम् । अपि॑न्वतम् । श॒यवे॑ । अ॒श्वि॒ना॒ । गाम् ।
यु॒वम् । शची॑भिः । वि॒ऽम॒दाय॑ । जा॒याम् । नि । ऊ॒ह॒थुः॒ । पु॒रु॒ऽमि॒त्रस्य॑ । योषा॑म् ॥
अधेनुम् । दस्रा । स्तर्यम् । विऽसक्ताम् । अपिन्वतम् । शयवे । अश्विना । गाम् ।
युवम् । शचीभिः । विऽमदाय । जायाम् । नि । ऊहथुः । पुरुऽमित्रस्य । योषाम् ॥
ádhenum ǀ dasrā ǀ staryám ǀ ví-saktām ǀ ápinvatam ǀ śayáve ǀ aśvinā ǀ gā́m ǀ
yuvám ǀ śácībhiḥ ǀ vi-madā́ya ǀ jāyā́m ǀ ní ǀ ūhathuḥ ǀ puru-mitrásya ǀ yóṣām ǁ
adhenum ǀ dasrā ǀ staryam ǀ vi-saktām ǀ apinvatam ǀ śayave ǀ aśvinā ǀ gām ǀ
yuvam ǀ śacībhiḥ ǀ vi-madāya ǀ jāyām ǀ ni ǀ ūhathuḥ ǀ puru-mitrasya ǀ yoṣām ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 01.117.20
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 1.8.16.05
- Maṇḍala · Anuvāka · Ṛk
- 1.17.045
- Devatā देवता
- Aśvins
- Ṛṣi ऋषि
- Kakṣīvat Dairghatamasa
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.