Ṛgveda · Maṇḍala 10 · Sūkta 151

Ṛk 10.151.5

Śraddhā · Śraddhā Kāmāyanī

The whole sūkta Link

Saṃhitā

श्र॒द्धां प्रा॒तर्ह॑वामहे श्र॒द्धां म॒ध्यंदि॑नं॒ परि॑ ।
श्र॒द्धां सूर्य॑स्य नि॒म्रुचि॒ श्रद्धे॒ श्रद्धा॑पये॒ह नः॑ ॥

श्रद्धाम् प्रातर् हवामहे श्रद्धाम् मध्यन्दिनम् परि |
श्रद्धां सूर्यस्य निम्रुचि श्रद्धे श्रद् धापयेह नः ||

śraddhā́m prātárhavāmahe śraddhā́m madhyáṃdinam pári ǀ
śraddhā́m sū́ryasya nimrúci śráddhe śráddhāpayehá naḥ ǁ

śraddhām prātar havāmahe śraddhām madhyandinam pari |
śraddhāṃ sūryasya nimruci śraddhe śrad dhāpayeha naḥ ||

Padapāṭha

श्र॒द्धाम् । प्रा॒तः । ह॒वा॒म॒हे॒ । श्र॒द्धाम् । म॒ध्यन्दि॑नम् । परि॑ ।
श्र॒द्धाम् । सूर्य॑स्य । नि॒ऽम्रुचि॑ । श्रद्धे॑ । श्रत् । धा॒प॒य॒ । इ॒ह । नः॒ ॥

श्रद्धाम् । प्रातः । हवामहे । श्रद्धाम् । मध्यन्दिनम् । परि ।
श्रद्धाम् । सूर्यस्य । निऽम्रुचि । श्रद्धे । श्रत् । धापय । इह । नः ॥

śraddhā́m ǀ prātáḥ ǀ havāmahe ǀ śraddhā́m ǀ madhyándinam ǀ pári ǀ
śraddhā́m ǀ sū́ryasya ǀ ni-mrúci ǀ śráddhe ǀ śrát ǀ dhāpaya ǀ ihá ǀ naḥ ǁ

śraddhām ǀ prātaḥ ǀ havāmahe ǀ śraddhām ǀ madhyandinam ǀ pari ǀ
śraddhām ǀ sūryasya ǀ ni-mruci ǀ śraddhe ǀ śrat ǀ dhāpaya ǀ iha ǀ naḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
10.151.05
Aṣṭaka · Adhyāya · Varga · Ṛk
8.8.09.05
Maṇḍala · Anuvāka · Ṛk
10.11.144
Devatā देवता
Śraddhā
Ṛṣi ऋषि
Śraddhā Kāmāyanī
Chandas छन्दस्
Anuṣṭubh
Svara स्वरः
गान्धारः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.151.5

Interpretations

Sāyaṇa

श्रद्धां देवीं प्रातः पूर्वाह्णे हवामहे । तथा मध्यन्दिनं परि। लक्शणे परेः कर्मप्रवचनीयत्वं। मध्यन्दिनं परिलक्ष्य। मध्यन्दिन इत्यर्थः। मध्याह्नेऽपि तां श्रद्धामह्वयामहे। सूर्यस्य सर्वस्य प्रेरकस्यादित्यस्य निम्रुच्यस्तमयवेलायां सायंसमयेऽपि तामेव श्रद्धामाह्वयामहे। ईद्रुग्रूपे हे श्रद्धे नोऽस्मानिह लोके कर्मणि वा श्रद्धापय। श्रद्धावतः कुरु॥५॥