Ṛgveda · Maṇḍala 10 · Sūkta 168
Ṛk 10.168.3
Saṃhitā
अं॒तरि॑क्षे प॒थिभि॒रीय॑मानो॒ न नि वि॑शते कत॒मच्च॒नाहः॑ ।
अ॒पां सखा॑ प्रथम॒जा ऋ॒तावा॒ क्व॑ स्विज्जा॒तः कुत॒ आ ब॑भूव ॥
अन्तरिक्षे पथिभिर् ईयमानो न नि विशते कतमच् चनाहः |
अपां सखा प्रथमजा ऋतावा क्व स्विज् जातः कुत आ बभूव ||
antárikṣe pathíbhirī́yamāno ná ní viśate katamáccanā́haḥ ǀ
apā́m sákhā prathamajā́ ṛtā́vā kvá svijjātáḥ kúta ā́ babhūva ǁ
antarikṣe pathibhir īyamāno na ni viśate katamac canāhaḥ |
apāṃ sakhā prathamajā ṛtāvā kva svij jātaḥ kuta ā babhūva ||
Padapāṭha
अ॒न्तरि॑क्षे । प॒थिऽभिः॑ । ईय॑मानः । न । नि । वि॒श॒ते॒ । क॒त॒मत् । च॒न । अह॒रिति॑ ।
अ॒पाम् । सखा॑ । प्र॒थ॒म॒ऽजाः । ऋ॒तऽवा॑ । क्व॑ । स्वि॒त् । जा॒तः । कुतः॑ । आ । ब॒भू॒व॒ ॥
अन्तरिक्षे । पथिऽभिः । ईयमानः । न । नि । विशते । कतमत् । चन । अहरिति ।
अपाम् । सखा । प्रथमऽजाः । ऋतऽवा । क्व । स्वित् । जातः । कुतः । आ । बभूव ॥
antárikṣe ǀ pathí-bhiḥ ǀ ī́yamānaḥ ǀ ná ǀ ní ǀ viśate ǀ katamát ǀ caná ǀ áharíti ǀ
apā́m ǀ sákhā ǀ prathama-jā́ḥ ǀ ṛtá-vā ǀ kvá ǀ svit ǀ jātáḥ ǀ kútaḥ ǀ ā́ ǀ babhūva ǁ
antarikṣe ǀ pathi-bhiḥ ǀ īyamānaḥ ǀ na ǀ ni ǀ viśate ǀ katamat ǀ cana ǀ ahariti ǀ
apām ǀ sakhā ǀ prathama-jāḥ ǀ ṛta-vā ǀ kva ǀ svit ǀ jātaḥ ǀ kutaḥ ǀ ā ǀ babhūva ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.168.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.8.26.03
- Maṇḍala · Anuvāka · Ṛk
- 10.12.085
- Devatā देवता
- Vāta
- Ṛṣi ऋषि
- Anila Vātāyana
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.