Ṛgveda · Maṇḍala 10 · Sūkta 168

Ṛk 10.168.4

Vāta · Anila Vātāyana

The whole sūkta Link

Saṃhitā

आ॒त्मा दे॒वानां॒ भुव॑नस्य॒ गर्भो॑ यथाव॒शं च॑रति दे॒व ए॒षः ।
घोषा॒ इद॑स्य शृण्विरे॒ न रू॒पं तस्मै॒ वाता॑य ह॒विषा॑ विधेम ॥

आत्मा देवानाम् भुवनस्य गर्भो यथावशं चरति देव एषः |
घोषा इद् अस्य शृण्विरे न रूपं तस्मै वाताय हविषा विधेम ||

ātmā́ devā́nām bhúvanasya gárbho yathāvaśám carati devá eṣáḥ ǀ
ghóṣā ídasya śṛṇvire ná rūpám tásmai vā́tāya havíṣā vidhema ǁ

ātmā devānām bhuvanasya garbho yathāvaśaṃ carati deva eṣaḥ |
ghoṣā id asya śṛṇvire na rūpaṃ tasmai vātāya haviṣā vidhema ||

Padapāṭha

आ॒त्मा । दे॒वाना॑म् । भुव॑नस्य । गर्भः॑ । य॒था॒ऽव॒शम् । च॒र॒ति॒ । दे॒वः । ए॒षः ।
घोषाः॑ । इत् । अ॒स्य॒ । शृ॒ण्वि॒रे॒ । न । रू॒पम् । तस्मै॑ । वाता॑य । ह॒विषा॑ । वि॒धे॒म॒ ॥

आत्मा । देवानाम् । भुवनस्य । गर्भः । यथाऽवशम् । चरति । देवः । एषः ।
घोषाः । इत् । अस्य । शृण्विरे । न । रूपम् । तस्मै । वाताय । हविषा । विधेम ॥

ātmā́ ǀ devā́nām ǀ bhúvanasya ǀ gárbhaḥ ǀ yathā-vaśám ǀ carati ǀ deváḥ ǀ eṣáḥ ǀ
ghóṣāḥ ǀ ít ǀ asya ǀ śṛṇvire ǀ ná ǀ rūpám ǀ tásmai ǀ vā́tāya ǀ havíṣā ǀ vidhema ǁ

ātmā ǀ devānām ǀ bhuvanasya ǀ garbhaḥ ǀ yathā-vaśam ǀ carati ǀ devaḥ ǀ eṣaḥ ǀ
ghoṣāḥ ǀ it ǀ asya ǀ śṛṇvire ǀ na ǀ rūpam ǀ tasmai ǀ vātāya ǀ haviṣā ǀ vidhema ǁ

References

Maṇḍala · Sūkta · Ṛk
10.168.04
Aṣṭaka · Adhyāya · Varga · Ṛk
8.8.26.04
Maṇḍala · Anuvāka · Ṛk
10.12.086
Devatā देवता
Vāta
Ṛṣi ऋषि
Anila Vātāyana
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.168.4

Interpretations

Sāyaṇa

अयं वायुर्देवानामिन्द्रादीनामप्यात्मा जीवरूपेण तेष्ववस्थानाद्भुवनस्यापि भूतजातस्य गर्भो गर्भवत्प्राणरूपेणान्तर्वर्तमान एष ईदृशो देवो यथावशम् यथाकामं यथेच्छं चरति। वर्तते। अनिवारितगतिः सन् क्वचिच्छीघ्रं गच्छति क्वचिच्छनैर्गतिः कुतश्चिच्छिरीरान्निष्क्रामत्यन्यच्च शरीरम् प्रविशतित्येवं यथेच्छं वर्तत इत्यर्थः। अस्य वायोरागच्छातो घोषा इच्छब्दा एव शृण्विरे। श्रूयन्ते। रूपं स्वरूपं तु न दृश्यते नीरूपत्वात्। अदृग्विषयत्वेन शब्देनैवानुमीयुत इत्यर्थः। तस्मै वाताय दायवे हविषा चरुपुरोडाशादिलक्शणेन विधेम। परिचरेम॥४॥