Ṛgveda · Maṇḍala 10 · Sūkta 179

Ṛk 10.179.3

Indra · 1: Śibi Auśīnara; 2: Pratardana Daivodāsi; 3: Vasumanas Rauhidaśva

The whole sūkta Link

Saṃhitā

श्रा॒तं म॑न्य॒ ऊध॑नि श्रा॒तम॒ग्नौ सुश्रा॑तं मन्ये॒ तदृ॒तं नवी॑यः ।
माध्यं॑दिनस्य॒ सव॑नस्य द॒ध्नः पिबें॑द्र वज्रिन्पुरुकृज्जुषा॒णः ॥

श्रातम् मन्य ऊधनि श्रातम् अग्नौ सुश्रातम् मन्ये तद् ऋतं नवीयः |
माध्यन्दिनस्य सवनस्य दध्नः पिबेन्द्र वज्रिन् पुरुकृज् जुषाणः ||

śrātám manya ū́dhani śrātámagnáu súśrātam manye tádṛtám návīyaḥ ǀ
mā́dhyaṃdinasya sávanasya dadhnáḥ píbendra vajrinpurukṛjjuṣāṇáḥ ǁ

śrātam manya ūdhani śrātam agnau suśrātam manye tad ṛtaṃ navīyaḥ |
mādhyandinasya savanasya dadhnaḥ pibendra vajrin purukṛj juṣāṇaḥ ||

Padapāṭha

श्रा॒तम् । म॒न्ये॒ । ऊध॑नि । श्रा॒तम् । अ॒ग्नौ । सुऽश्रा॑तम् । म॒न्ये॒ । तत् । ऋ॒तम् । नवी॑यः ।
माध्य॑न्दिनस्य । सव॑नस्य । द॒ध्नः । पिब॑ । इ॒न्द्र॒ । व॒ज्रि॒न् । पु॒रु॒ऽकृ॒त् । जु॒षा॒णः ॥

श्रातम् । मन्ये । ऊधनि । श्रातम् । अग्नौ । सुऽश्रातम् । मन्ये । तत् । ऋतम् । नवीयः ।
माध्यन्दिनस्य । सवनस्य । दध्नः । पिब । इन्द्र । वज्रिन् । पुरुऽकृत् । जुषाणः ॥

śrātám ǀ manye ǀ ū́dhani ǀ śrātám ǀ agnáu ǀ sú-śrātam ǀ manye ǀ tát ǀ ṛtám ǀ návīyaḥ ǀ
mā́dhyandinasya ǀ sávanasya ǀ dadhnáḥ ǀ píba ǀ indra ǀ vajrin ǀ puru-kṛt ǀ juṣāṇáḥ ǁ

śrātam ǀ manye ǀ ūdhani ǀ śrātam ǀ agnau ǀ su-śrātam ǀ manye ǀ tat ǀ ṛtam ǀ navīyaḥ ǀ
mādhyandinasya ǀ savanasya ǀ dadhnaḥ ǀ piba ǀ indra ǀ vajrin ǀ puru-kṛt ǀ juṣāṇaḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
10.179.03
Aṣṭaka · Adhyāya · Varga · Ṛk
8.8.37.03
Maṇḍala · Anuvāka · Ṛk
10.12.130
Devatā देवता
Indra
Ṛṣi ऋषि
1: Śibi Auśīnara; 2: Pratardana Daivodāsi; 3: Vasumanas Rauhidaśva
Chandas छन्दस्
Triṣṭubh, Anuṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.179.3

Interpretations

Sāyaṇa

उपोद्घातः

तस्यैव दधिघर्मस्य श्रातं मन्य इत्येषा याज्या। सूत्र्यते हि। श्रातं मन्य ऊधनि श्रातमग्नाविति यजति। आ. ५-१३। इति॥

ऊधनि गोरूधस्येतद्धधिघर्ममाख्यं हविः पयोरूपेण श्रातं पक्वमिति मन्ये। जाने। पुनश्च दुग्धं पयोऽग्नावपि श्रातं पक्वम्। इदानीं दध्यवस्थमप्यग्नौ पच्यते। अतः सुश्रातं सुपक्वमिति मन्ये। जाने अत एतद्धविरृतं सत्यभूतं नवीयो नवतरं प्रत्यग्रतरं भवति। हे वज्रिन् वज्रवन् हे पुरुकृद्बहुकर्मक्रुदिन्द्र जुषाणः प्रीयमाणस्त्वं माध्यन्दिनस्य माध्यन्दिने भवस्य सवनस्य सोमस्य सम्बन्धिनो दध्नः। कर्मणि षष्ठी। दधिघर्माख्यं हविः पिब॥३॥