Ṛgveda · Maṇḍala 10 · Sūkta 13
Ṛk 10.13.1
Saṃhitā
यु॒जे वां॒ ब्रह्म॑ पू॒र्व्यं नमो॑भि॒र्वि श्लोक॑ एतु प॒थ्ये॑व सू॒रेः ।
शृ॒ण्वंतु॒ विश्वे॑ अ॒मृत॑स्य पु॒त्रा आ ये धामा॑नि दि॒व्यानि॑ त॒स्थुः ॥
युजे वाम् ब्रह्म पूर्व्यं नमोभिर् वि श्लोक एतु पथ्येव सूरेः |
शृण्वन्तु विश्वे अमृतस्य पुत्रा आ ये धामानि दिव्यानि तस्थुः ||
yujé vām bráhma pūrvyám námobhirví ślóka etu pathyéva sūréḥ ǀ
śṛṇvántu víśve amṛ́tasya putrā́ ā́ yé dhā́māni divyā́ni tasthúḥ ǁ
yuje vām brahma pūrvyaṃ namobhir vi śloka etu pathyeva sūreḥ |
śṛṇvantu viśve amṛtasya putrā ā ye dhāmāni divyāni tasthuḥ ||
Padapāṭha
यु॒जे । वा॒म् । ब्रह्म॑ । पू॒र्व्यम् । नमः॑ऽभिः । वि । श्लोकः॑ । ए॒तु॒ । प॒थ्या॑ऽइव । सू॒रेः ।
शृ॒ण्वन्तु॑ । विश्वे॑ । अ॒मृत॑स्य । पु॒त्राः । आ । ये । धामा॑नि । दि॒व्यानि॑ । त॒स्थुः ॥
युजे । वाम् । ब्रह्म । पूर्व्यम् । नमःऽभिः । वि । श्लोकः । एतु । पथ्याऽइव । सूरेः ।
शृण्वन्तु । विश्वे । अमृतस्य । पुत्राः । आ । ये । धामानि । दिव्यानि । तस्थुः ॥
yujé ǀ vām ǀ bráhma ǀ pūrvyám ǀ námaḥ-bhiḥ ǀ ví ǀ ślókaḥ ǀ etu ǀ pathyā́-iva ǀ sūréḥ ǀ
śṛṇvántu ǀ víśve ǀ amṛ́tasya ǀ putrā́ḥ ǀ ā́ ǀ yé ǀ dhā́māni ǀ divyā́ni ǀ tasthúḥ ǁ
yuje ǀ vām ǀ brahma ǀ pūrvyam ǀ namaḥ-bhiḥ ǀ vi ǀ ślokaḥ ǀ etu ǀ pathyā-iva ǀ sūreḥ ǀ
śṛṇvantu ǀ viśve ǀ amṛtasya ǀ putrāḥ ǀ ā ǀ ye ǀ dhāmāni ǀ divyāni ǀ tasthuḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.013.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 7.6.13.01
- Maṇḍala · Anuvāka · Ṛk
- 10.01.100
- Devatā देवता
- Soma Carts
- Ṛṣi ऋषि
- Havirdhāna Āṅgi Or Vivasvat Āditya
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.