Ṛgveda · Maṇḍala 10 · Sūkta 117
Ṛk 10.117.2
Saṃhitā
य आ॒ध्राय॑ चकमा॒नाय॑ पि॒त्वोऽन्न॑वा॒न्त्सन्र॑फि॒तायो॑पज॒ग्मुषे॑ ।
स्थि॒रं मनः॑ कृणु॒ते सेव॑ते पु॒रोतो चि॒त्स म॑र्डि॒तारं॒ न विं॑दते ॥
य आध्राय चकमानाय पित्वो ऽन्नवान् सन् रफितायोपजग्मुषे |
स्थिरम् मनः कृणुते सेवते पुरोतो चित् स मर्डितारं न विन्दते ||
yá ādhrā́ya cakamānā́ya pitvó’nnavāntsánraphitā́yopajagmúṣe ǀ
sthirám mánaḥ kṛṇuté sévate purótó citsá marḍitā́ram ná vindate ǁ
ya ādhrāya cakamānāya pitvo 'nnavān san raphitāyopajagmuṣe |
sthiram manaḥ kṛṇute sevate puroto cit sa marḍitāraṃ na vindate ||
Padapāṭha
यः । आ॒ध्राय॑ । च॒क॒मा॒नाय॑ । पि॒त्वः । अन्न॑ऽवान् । सन् । र॒फि॒ताय॑ । उ॒प॒ऽज॒ग्मुषे॑ ।
स्थि॒रम् । मनः॑ । कृ॒णु॒ते । सेव॑ते । पु॒रा । उ॒तो इति॑ । चि॒त् । सः । म॒र्डि॒तार॑म् । न । वि॒न्द॒ते॒ ॥
यः । आध्राय । चकमानाय । पित्वः । अन्नऽवान् । सन् । रफिताय । उपऽजग्मुषे ।
स्थिरम् । मनः । कृणुते । सेवते । पुरा । उतो इति । चित् । सः । मर्डितारम् । न । विन्दते ॥
yáḥ ǀ ādhrā́ya ǀ cakamānā́ya ǀ pitváḥ ǀ ánna-vān ǀ sán ǀ raphitā́ya ǀ upa-jagmúṣe ǀ
sthirám ǀ mánaḥ ǀ kṛṇuté ǀ sévate ǀ purā́ ǀ utó íti ǀ cit ǀ sáḥ ǀ marḍitā́ram ǀ ná ǀ vindate ǁ
yaḥ ǀ ādhrāya ǀ cakamānāya ǀ pitvaḥ ǀ anna-vān ǀ san ǀ raphitāya ǀ upa-jagmuṣe ǀ
sthiram ǀ manaḥ ǀ kṛṇute ǀ sevate ǀ purā ǀ uto iti ǀ cit ǀ saḥ ǀ marḍitāram ǀ na ǀ vindate ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.117.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.6.22.02
- Maṇḍala · Anuvāka · Ṛk
- 10.10.040
- Devatā देवता
- Dasyat
- Ṛṣi ऋषि
- Bhikṣu Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.