Ṛgveda · Maṇḍala 10 · Sūkta 117
Ṛk 10.117.8
Saṃhitā
एक॑पा॒द्भूयो॑ द्वि॒पदो॒ वि च॑क्रमे द्वि॒पात्त्रि॒पाद॑म॒भ्ये॑ति प॒श्चात् ।
चतु॑ष्पादेति द्वि॒पदा॑मभिस्व॒रे सं॒पश्य॑न्पं॒क्तीरु॑प॒तिष्ठ॑मानः ॥
एकपाद् भूयो द्विपदो वि चक्रमे द्विपात् त्रिपादम् अभ्य् एति पश्चात् |
चतुष्पाद् एति द्विपदाम् अभिस्वरे सम्पश्यन् पङ्क्तीर् उपतिष्ठमानः ||
ékapādbhū́yo dvipádo ví cakrame dvipā́ttripā́damabhyéti paścā́t ǀ
cátuṣpādeti dvipádāmabhisvaré sampáśyanpaṅktī́rupatíṣṭhamānaḥ ǁ
ekapād bhūyo dvipado vi cakrame dvipāt tripādam abhy eti paścāt |
catuṣpād eti dvipadām abhisvare sampaśyan paṅktīr upatiṣṭhamānaḥ ||
Padapāṭha
एक॑ऽपात् । भूयः॑ । द्वि॒ऽपदः॑ । वि । च॒क्र॒मे॒ । द्वि॒ऽपात् । त्रि॒ऽपाद॑म् । अ॒भि । ए॒ति॒ । प॒श्चात् ।
चतुः॑ऽपात् । ए॒ति॒ । द्वि॒ऽपदा॑म् । अ॒भि॒ऽस्व॒रे । स॒म्ऽपश्य॑न् । प॒ङ्क्तीः । उ॒प॒ऽतिष्ठ॑मानः ॥
एकऽपात् । भूयः । द्विऽपदः । वि । चक्रमे । द्विऽपात् । त्रिऽपादम् । अभि । एति । पश्चात् ।
चतुःऽपात् । एति । द्विऽपदाम् । अभिऽस्वरे । सम्ऽपश्यन् । पङ्क्तीः । उपऽतिष्ठमानः ॥
éka-pāt ǀ bhū́yaḥ ǀ dvi-pádaḥ ǀ ví ǀ cakrame ǀ dvi-pā́t ǀ tri-pā́dam ǀ abhí ǀ eti ǀ paścā́t ǀ
cátuḥ-pāt ǀ eti ǀ dvi-pádām ǀ abhi-svaré ǀ sam-páśyan ǀ paṅktī́ḥ ǀ upa-tíṣṭhamānaḥ ǁ
eka-pāt ǀ bhūyaḥ ǀ dvi-padaḥ ǀ vi ǀ cakrame ǀ dvi-pāt ǀ tri-pādam ǀ abhi ǀ eti ǀ paścāt ǀ
catuḥ-pāt ǀ eti ǀ dvi-padām ǀ abhi-svare ǀ sam-paśyan ǀ paṅktīḥ ǀ upa-tiṣṭhamānaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.117.08
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.6.23.03
- Maṇḍala · Anuvāka · Ṛk
- 10.10.046
- Devatā देवता
- Dasyat
- Ṛṣi ऋषि
- Bhikṣu Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.