Ṛgveda · Maṇḍala 10 · Sūkta 117
Ṛk 10.117.1
Saṃhitā
न वा उ॑ दे॒वाः क्षुध॒मिद्व॒धं द॑दुरु॒ताशि॑त॒मुप॑ गच्छंति मृ॒त्यवः॑ ।
उ॒तो र॒यिः पृ॑ण॒तो नोप॑ दस्यत्यु॒तापृ॑णन्मर्डि॒तारं॒ न विं॑दते ॥
न वा उ देवाः क्षुधम् इद् वधं ददुर् उताशितम् उप गच्छन्ति मृत्यवः |
उतो रयिः पृणतो नोप दस्यत्य् उतापृणन् मर्डितारं न विन्दते ||
ná vā́ u devā́ḥ kṣúdhamídvadhám dadurutā́śitamúpa gacchanti mṛtyávaḥ ǀ
utó rayíḥ pṛṇató nópa dasyatyutā́pṛṇanmarḍitā́ram ná vindate ǁ
na vā u devāḥ kṣudham id vadhaṃ dadur utāśitam upa gacchanti mṛtyavaḥ |
uto rayiḥ pṛṇato nopa dasyaty utāpṛṇan marḍitāraṃ na vindate ||
Padapāṭha
न । वै । ऊं॒ इति॑ । दे॒वाः । क्षुध॑म् । इत् । व॒धम् । द॒दुः॒ । उ॒त । आशि॑तम् । उप॑ । ग॒च्छ॒न्ति॒ । मृ॒त्यवः॑ ।
उ॒तो इति॑ । र॒यिः । पृ॒ण॒तः । न । उप॑ । द॒स्य॒ति॒ । उ॒त । अपृ॑णन् । म॒र्डि॒तार॑म् । न । वि॒न्द॒ते॒ ॥
न । वै । ऊं इति । देवाः । क्षुधम् । इत् । वधम् । ददुः । उत । आशितम् । उप । गच्छन्ति । मृत्यवः ।
उतो इति । रयिः । पृणतः । न । उप । दस्यति । उत । अपृणन् । मर्डितारम् । न । विन्दते ॥
ná ǀ vái ǀ ūṃ íti ǀ devā́ḥ ǀ kṣúdham ǀ ít ǀ vadhám ǀ daduḥ ǀ utá ǀ ā́śitam ǀ úpa ǀ gacchanti ǀ mṛtyávaḥ ǀ
utó íti ǀ rayíḥ ǀ pṛṇatáḥ ǀ ná ǀ úpa ǀ dasyati ǀ utá ǀ ápṛṇan ǀ marḍitā́ram ǀ ná ǀ vindate ǁ
na ǀ vai ǀ ūṃ iti ǀ devāḥ ǀ kṣudham ǀ it ǀ vadham ǀ daduḥ ǀ uta ǀ āśitam ǀ upa ǀ gacchanti ǀ mṛtyavaḥ ǀ
uto iti ǀ rayiḥ ǀ pṛṇataḥ ǀ na ǀ upa ǀ dasyati ǀ uta ǀ apṛṇan ǀ marḍitāram ǀ na ǀ vindate ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.117.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.6.22.01
- Maṇḍala · Anuvāka · Ṛk
- 10.10.039
- Devatā देवता
- Dasyat
- Ṛṣi ऋषि
- Bhikṣu Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.