Ṛgveda · Maṇḍala 10 · Sūkta 117
Ṛk 10.117.9
Saṃhitā
स॒मौ चि॒द्धस्तौ॒ न स॒मं वि॑विष्टः सम्मा॒तरा॑ चि॒न्न स॒मं दु॑हाते ।
य॒मयो॑श्चि॒न्न स॒मा वी॒र्या॑णि ज्ञा॒ती चि॒त्संतौ॒ न स॒मं पृ॑णीतः ॥
समौ चिद् धस्तौ न समं विविष्टः सम्मातरा चिन् न समं दुहाते |
यमयोश् चिन् न समा वीर्याणि ज्ञाती चित् सन्तौ न समम् पृणीतः ||
samáu ciddhástau ná samám viviṣṭaḥ sammātárā cinná samám duhāte ǀ
yamáyościnná samā́ vīryā́ṇi jñātī́ citsántau ná samám pṛṇītaḥ ǁ
samau cid dhastau na samaṃ viviṣṭaḥ sammātarā cin na samaṃ duhāte |
yamayoś cin na samā vīryāṇi jñātī cit santau na samam pṛṇītaḥ ||
Padapāṭha
स॒मौ । चि॒त् । हस्तौ॑ । न । स॒मम् । वि॒वि॒ष्टः॒ । स॒म्ऽमा॒तरा॑ । चि॒त् । न । स॒मम् । दु॒हा॒ते॒ इति॑ ।
य॒मयोः॑ । चि॒त् । न । स॒मा । वी॒र्या॑णि । ज्ञा॒ती इति॑ । चि॒त् । सन्तौ॑ । न । स॒मम् । पृ॒णी॒तः॒ ॥
समौ । चित् । हस्तौ । न । समम् । विविष्टः । सम्ऽमातरा । चित् । न । समम् । दुहाते इति ।
यमयोः । चित् । न । समा । वीर्याणि । ज्ञाती इति । चित् । सन्तौ । न । समम् । पृणीतः ॥
samáu ǀ cit ǀ hástau ǀ ná ǀ samám ǀ viviṣṭaḥ ǀ sam-mātárā ǀ cit ǀ ná ǀ samám ǀ duhāte íti ǀ
yamáyoḥ ǀ cit ǀ ná ǀ samā́ ǀ vīryā́ṇi ǀ jñātī́ íti ǀ cit ǀ sántau ǀ ná ǀ samám ǀ pṛṇītaḥ ǁ
samau ǀ cit ǀ hastau ǀ na ǀ samam ǀ viviṣṭaḥ ǀ sam-mātarā ǀ cit ǀ na ǀ samam ǀ duhāte iti ǀ
yamayoḥ ǀ cit ǀ na ǀ samā ǀ vīryāṇi ǀ jñātī iti ǀ cit ǀ santau ǀ na ǀ samam ǀ pṛṇītaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.117.09
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.6.23.04
- Maṇḍala · Anuvāka · Ṛk
- 10.10.047
- Devatā देवता
- Dasyat
- Ṛṣi ऋषि
- Bhikṣu Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.