Ṛgveda · Maṇḍala 10 · Sūkta 117
Ṛk 10.117.7
Saṃhitā
कृ॒षन्नित्फाल॒ आशि॑तं कृणोति॒ यन्नध्वा॑न॒मप॑ वृंक्ते च॒रित्रैः॑ ।
वद॑न्ब्र॒ह्माव॑दतो॒ वनी॑यान्पृ॒णन्ना॒पिरपृ॑णंतम॒भि ष्या॑त् ॥
कृषन्न् इत् फाल आशितं कृणोति यन्न् अध्वानम् अप वृङ्क्ते चरित्रैः |
वदन् ब्रह्मावदतो वनीयान् पृणन्न् आपिर् अपृणन्तम् अभि ष्यात् ||
kṛṣánnítphā́la ā́śitam kṛṇoti yánnádhvānamápa vṛṅkte carítraiḥ ǀ
vádanbrahmā́vadato vánīyānpṛṇánnāpírápṛṇantamabhí ṣyāt ǁ
kṛṣann it phāla āśitaṃ kṛṇoti yann adhvānam apa vṛṅkte caritraiḥ |
vadan brahmāvadato vanīyān pṛṇann āpir apṛṇantam abhi ṣyāt ||
Padapāṭha
कृ॒षन् । इत् । फालः॑ । आशि॑तम् । कृ॒णो॒ति॒ । यन् । अध्वा॑नम् । अप॑ । वृ॒ङ्क्ते॒ । च॒रित्रैः॑ ।
वद॑न् । ब्र॒ह्मा । अव॑दतः । वनी॑यान् । पृ॒णन् । आ॒पिः । अपृ॑णन्तम् । अ॒भि । स्या॒त् ॥
कृषन् । इत् । फालः । आशितम् । कृणोति । यन् । अध्वानम् । अप । वृङ्क्ते । चरित्रैः ।
वदन् । ब्रह्मा । अवदतः । वनीयान् । पृणन् । आपिः । अपृणन्तम् । अभि । स्यात् ॥
kṛṣán ǀ ít ǀ phā́laḥ ǀ ā́śitam ǀ kṛṇoti ǀ yán ǀ ádhvānam ǀ ápa ǀ vṛṅkte ǀ carítraiḥ ǀ
vádan ǀ brahmā́ ǀ ávadataḥ ǀ vánīyān ǀ pṛṇán ǀ āpíḥ ǀ ápṛṇantam ǀ abhí ǀ syāt ǁ
kṛṣan ǀ it ǀ phālaḥ ǀ āśitam ǀ kṛṇoti ǀ yan ǀ adhvānam ǀ apa ǀ vṛṅkte ǀ caritraiḥ ǀ
vadan ǀ brahmā ǀ avadataḥ ǀ vanīyān ǀ pṛṇan ǀ āpiḥ ǀ apṛṇantam ǀ abhi ǀ syāt ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.117.07
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.6.23.02
- Maṇḍala · Anuvāka · Ṛk
- 10.10.045
- Devatā देवता
- Dasyat
- Ṛṣi ऋषि
- Bhikṣu Āṅgirasa
- Chandas छन्दस्
- Triṣṭubh, Jagatī
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.