Ṛgveda · Maṇḍala 10 · Sūkta 116

Ṛk 10.116.9

Indra · Agniyuta Sthaura Or Agniyūpa Sthaura

The whole sūkta Link

Saṃhitā

प्रेंद्रा॒ग्निभ्यां॑ सुवच॒स्यामि॑यर्मि॒ सिंधा॑विव॒ प्रेर॑यं॒ नाव॑म॒र्कैः ।
अया॑ इव॒ परि॑ चरंति दे॒वा ये अ॒स्मभ्यं॑ धन॒दा उ॒द्भिद॑श्च ॥

प्रेन्द्राग्निभ्यां सुवचस्याम् इयर्मि सिन्धाव् इव प्रेरयं नावम् अर्कैः |
अया इव परि चरन्ति देवा ये अस्मभ्यं धनदा उद्भिदश् च ||

préndrāgníbhyām suvacasyā́miyarmi síndhāviva prérayam nā́vamarkáiḥ ǀ
áyā iva pári caranti devā́ yé asmábhyam dhanadā́ udbhídaśca ǁ

prendrāgnibhyāṃ suvacasyām iyarmi sindhāv iva prerayaṃ nāvam arkaiḥ |
ayā iva pari caranti devā ye asmabhyaṃ dhanadā udbhidaś ca ||

Padapāṭha

प्र । इ॒न्द्रा॒ग्निऽभ्या॑म् । सु॒ऽव॒च॒स्याम् । इ॒य॒र्मि॒ । सिन्धौ॑ऽइव । प्र । ई॒र॒य॒म् । नाव॑म् । अ॒र्कैः ।
अयाः॑ऽइव । परि॑ । च॒र॒न्ति॒ । दे॒वाः । ये । अ॒स्मभ्य॑म् । ध॒न॒ऽदाः । उ॒त्ऽभिदः॑ । च॒ ॥

प्र । इन्द्राग्निऽभ्याम् । सुऽवचस्याम् । इयर्मि । सिन्धौऽइव । प्र । ईरयम् । नावम् । अर्कैः ।
अयाःऽइव । परि । चरन्ति । देवाः । ये । अस्मभ्यम् । धनऽदाः । उत्ऽभिदः । च ॥

prá ǀ indrāgní-bhyām ǀ su-vacasyā́m ǀ iyarmi ǀ síndhau-iva ǀ prá ǀ īrayam ǀ nā́vam ǀ arkáiḥ ǀ
áyāḥ-iva ǀ pári ǀ caranti ǀ devā́ḥ ǀ yé ǀ asmábhyam ǀ dhana-dā́ḥ ǀ ut-bhídaḥ ǀ ca ǁ

pra ǀ indrāgni-bhyām ǀ su-vacasyām ǀ iyarmi ǀ sindhau-iva ǀ pra ǀ īrayam ǀ nāvam ǀ arkaiḥ ǀ
ayāḥ-iva ǀ pari ǀ caranti ǀ devāḥ ǀ ye ǀ asmabhyam ǀ dhana-dāḥ ǀ ut-bhidaḥ ǀ ca ǁ

References

Maṇḍala · Sūkta · Ṛk
10.116.09
Aṣṭaka · Adhyāya · Varga · Ṛk
8.6.21.04
Maṇḍala · Anuvāka · Ṛk
10.10.038
Devatā देवता
Indra
Ṛṣi ऋषि
Agniyuta Sthaura Or Agniyūpa Sthaura
Chandas छन्दस्
Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.116.9

Interpretations

Sāyaṇa

इन्द्राग्निभ्यां देवाभ्याम् सुवचस्यां। छन्दसि चेति यत्प्रत्ययः। सुवचनार्हां स्तुतिमहम् प्रेयर्मि। प्र्रयामि। ऋ गतौ जौहोत्यादिकः। अर्तिपिपिर्त्योश्चेत्यभ्यासस्येत्वम्। देवताद्वन्द्वे चेतीन्द्राग्न्योरुभयपदप्रकृतिस्वरत्वे प्राप्ते नोत्तरपदेऽनुदात्तादाविति प्रतिषेधः। सिन्धविव सिन्धौ नद्यां यथा नावं प्रेरयन्ति तद्वदर्कैरर्चनीयैर्मन्त्रैः सहिताः स्तुतिं प्रेरयं। प्रावादिषम्। ईर गतौ। ण्यन्तस्य लङ्युत्तमस्यामादेशः। स्तुतास्ते देवा अया इव। अयन्ति कर्मकरनार्थं गच्छन्त्यया ऋत्विजः कर्मकरा वा। तद्वत्परि चरन्ति। अस्मान्धनादिदानेन पूजयन्ति। ये देवा अस्मभ्यं धनदा धनस्य दातार उद्भिदोऽस्मच्छत्रूणामुद्भेत्तारश्च ये सन्ति॥९॥