Ṛgveda · Maṇḍala 10 · Sūkta 156
Ṛk 10.156.4
Saṃhitā
अग्ने॒ नक्ष॑त्रम॒जर॒मा सूर्यं॑ रोहयो दि॒वि ।
दध॒ज्ज्योति॒र्जने॑भ्यः ॥
अग्ने नक्षत्रम् अजरम् आ सूर्यं रोहयो दिवि |
दधज् ज्योतिर् जनेभ्यः ||
ágne nákṣatramajáramā́ sū́ryam rohayo diví ǀ
dádhajjyótirjánebhyaḥ ǁ
agne nakṣatram ajaram ā sūryaṃ rohayo divi |
dadhaj jyotir janebhyaḥ ||
Padapāṭha
अग्ने॑ । नक्ष॑त्रम् । अ॒जर॑म् । आ । सूर्य॑म् । रो॒ह॒यः॒ । दि॒वि ।
दध॑त् । ज्योतिः॑ । जने॑भ्यः ॥
अग्ने । नक्षत्रम् । अजरम् । आ । सूर्यम् । रोहयः । दिवि ।
दधत् । ज्योतिः । जनेभ्यः ॥
ágne ǀ nákṣatram ǀ ajáram ǀ ā́ ǀ sū́ryam ǀ rohayaḥ ǀ diví ǀ
dádhat ǀ jyótiḥ ǀ jánebhyaḥ ǁ
agne ǀ nakṣatram ǀ ajaram ǀ ā ǀ sūryam ǀ rohayaḥ ǀ divi ǀ
dadhat ǀ jyotiḥ ǀ janebhyaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.156.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.8.14.04
- Maṇḍala · Anuvāka · Ṛk
- 10.12.024
- Devatā देवता
- Agni
- Ṛṣi ऋषि
- Ketu Āgneya
- Chandas छन्दस्
- Gāyatrī
- Svara स्वरः
- षड्जः
Text and interpretations from the Ṛgveda database of theveda.org.in.