Ṛgveda · Maṇḍala 10 · Sūkta 164
Ṛk 10.164.3
Saṃhitā
यदा॒शसा॑ निः॒शसा॑भि॒शसो॑पारि॒म जाग्र॑तो॒ यत्स्व॒पंतः॑ ।
अ॒ग्निर्विश्वा॒न्यप॑ दुष्कृ॒तान्यजु॑ष्टान्या॒रे अ॒स्मद्द॑धातु ॥
यद् आशसा निःशसाभिशसोपारिम जाग्रतो यत् स्वपन्तः |
अग्निर् विश्वान्य् अप दुष्कृतान्य् अजुष्टान्य् आरे अस्मद् दधातु ||
yádāśásā niḥśásābhiśásopārimá jā́grato yátsvapántaḥ ǀ
agnírvíśvānyápa duṣkṛtā́nyájuṣṭānyāré asmáddadhātu ǁ
yad āśasā niḥśasābhiśasopārima jāgrato yat svapantaḥ |
agnir viśvāny apa duṣkṛtāny ajuṣṭāny āre asmad dadhātu ||
Padapāṭha
यत् । आ॒ऽशसा॑ । निः॒ऽशसा॑ । अ॒भि॒ऽशसा॑ । उ॒प॒ऽआ॒रि॒म । जाग्र॑तः । यत् । स्व॒पन्तः॑ ।
अ॒ग्निः । विश्वा॑नि । अप॑ । दुः॒ऽकृ॒तानि॑ । अजु॑ष्टानि । आ॒रे । अ॒स्मत् । द॒धा॒तु॒ ॥
यत् । आऽशसा । निःऽशसा । अभिऽशसा । उपऽआरिम । जाग्रतः । यत् । स्वपन्तः ।
अग्निः । विश्वानि । अप । दुःऽकृतानि । अजुष्टानि । आरे । अस्मत् । दधातु ॥
yát ǀ ā-śásā ǀ niḥ-śásā ǀ abhi-śásā ǀ upa-ārimá ǀ jā́grataḥ ǀ yát ǀ svapántaḥ ǀ
agníḥ ǀ víśvāni ǀ ápa ǀ duḥ-kṛtā́ni ǀ ájuṣṭāni ǀ āré ǀ asmát ǀ dadhātu ǁ
yat ǀ ā-śasā ǀ niḥ-śasā ǀ abhi-śasā ǀ upa-ārima ǀ jāgrataḥ ǀ yat ǀ svapantaḥ ǀ
agniḥ ǀ viśvāni ǀ apa ǀ duḥ-kṛtāni ǀ ajuṣṭāni ǀ āre ǀ asmat ǀ dadhātu ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.164.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.8.22.03
- Maṇḍala · Anuvāka · Ṛk
- 10.12.066
- Devatā देवता
- Duḥ Svapnaghnam
- Ṛṣi ऋषि
- Pracetas Āṅgirasa
- Chandas छन्दस्
- Anuṣṭubh, Triṣṭubh, Paṅkti
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.