Ṛgveda · Maṇḍala 10 · Sūkta 167
Ṛk 10.167.4
Saṃhitā
प्रसू॑तो भ॒क्षम॑करं च॒रावपि॒ स्तोमं॑ चे॒मं प्र॑थ॒मः सू॒रिरुन्मृ॑जे ।
सु॒ते सा॒तेन॒ यद्याग॑मं वां॒ प्रति॑ विश्वामित्रजमदग्नी॒ दमे॑ ॥
प्रसूतो भक्षम् अकरं चराव् अपि स्तोमं चेमम् प्रथमः सूरिर् उन् मृजे |
सुते सातेन यद्य् आगमं वाम् प्रति विश्वामित्रजमदग्नी दमे ||
prásūto bhakṣámakaram carā́vápi stómam cemám prathamáḥ sūrírúnmṛje ǀ
suté sāténa yádyā́gamam vām práti viśvāmitrajamadagnī dáme ǁ
prasūto bhakṣam akaraṃ carāv api stomaṃ cemam prathamaḥ sūrir un mṛje |
sute sātena yady āgamaṃ vām prati viśvāmitrajamadagnī dame ||
Padapāṭha
प्रऽसू॑तः । भ॒क्षम् । अ॒क॒र॒म् । च॒रौ । अपि॑ । स्तोम॑म् । च॒ । इ॒मम् । प्र॒थ॒मः । सू॒रिः । उत् । मृ॒जे॒ ।
सु॒ते । सा॒तेन॑ । यदि॑ । आ । अग॑मम् । वा॒म् । प्रति॑ । वि॒श्वा॒मि॒त्र॒ज॒म॒द॒ग्नी॒ इति॑ । दमे॑ ॥
प्रऽसूतः । भक्षम् । अकरम् । चरौ । अपि । स्तोमम् । च । इमम् । प्रथमः । सूरिः । उत् । मृजे ।
सुते । सातेन । यदि । आ । अगमम् । वाम् । प्रति । विश्वामित्रजमदग्नी इति । दमे ॥
prá-sūtaḥ ǀ bhakṣám ǀ akaram ǀ caráu ǀ ápi ǀ stómam ǀ ca ǀ imám ǀ prathamáḥ ǀ sūríḥ ǀ út ǀ mṛje ǀ
suté ǀ sāténa ǀ yádi ǀ ā́ ǀ ágamam ǀ vām ǀ práti ǀ viśvāmitrajamadagnī íti ǀ dáme ǁ
pra-sūtaḥ ǀ bhakṣam ǀ akaram ǀ carau ǀ api ǀ stomam ǀ ca ǀ imam ǀ prathamaḥ ǀ sūriḥ ǀ ut ǀ mṛje ǀ
sute ǀ sātena ǀ yadi ǀ ā ǀ agamam ǀ vām ǀ prati ǀ viśvāmitrajamadagnī iti ǀ dame ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.167.04
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.8.25.04
- Maṇḍala · Anuvāka · Ṛk
- 10.12.082
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Jamadagni Bhārgava; Viśvāmitra Gāthina
- Chandas छन्दस्
- Jagatī
- Svara स्वरः
- निषादः
Text and interpretations from the Ṛgveda database of theveda.org.in.