Ṛgveda · Maṇḍala 10 · Sūkta 172

Ṛk 10.172.4

Uṣas · Saṃvarta Āṅgirasa

The whole sūkta Link

Saṃhitā

उ॒षा अप॒ स्वसु॒स्तमः॒ सं व॑र्तयति वर्त॒निं सु॑जा॒तता॑ ॥

उषा अप स्वसुस् तमः सं वर्तयति वर्तनिं सुजातता ||

uṣā́ ápa svásustámaḥ sám vartayati vartaním sujātátā ǁ

uṣā apa svasus tamaḥ saṃ vartayati vartaniṃ sujātatā ||

Padapāṭha

उ॒षाः । अप॑ । स्वसुः॑ । तमः॑ । सम् । व॒र्त॒य॒ति॒ । व॒र्त॒निम् । सु॒ऽजा॒तता॑ ॥

उषाः । अप । स्वसुः । तमः । सम् । वर्तयति । वर्तनिम् । सुऽजातता ॥

uṣā́ḥ ǀ ápa ǀ svásuḥ ǀ támaḥ ǀ sám ǀ vartayati ǀ vartaním ǀ su-jātátā ǁ

uṣāḥ ǀ apa ǀ svasuḥ ǀ tamaḥ ǀ sam ǀ vartayati ǀ vartanim ǀ su-jātatā ǁ

References

Maṇḍala · Sūkta · Ṛk
10.172.04
Aṣṭaka · Adhyāya · Varga · Ṛk
8.8.30.04
Maṇḍala · Anuvāka · Ṛk
10.12.102
Devatā देवता
Uṣas
Ṛṣi ऋषि
Saṃvarta Āṅgirasa
Chandas छन्दस्
Dvipadā Virāj
Svara स्वरः
षड्जः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.172.4

Interpretations

Sāyaṇa

उपोद्घातः

दशमेऽहनि प्रातरनुवाक उषस्ये क्रतावुषो भद्रेभिरित्यस्याः स्थान उषा अप स्वसुरित्येषा। सूत्रितं च। उषा आप स्वसुस्तम इति पच्छो द्विपदां त्रिरुषस्ये। आ. ८-१२। इति॥

इयमुषाः स्वसुर्भगिन्या रात्रेः सम्बन्धि तमोऽन्धकारमप सं वर्तयति। आत्मीयेन तेजसापगमयति। सुजातता सुजातत्वमात्मनः सुप्रजातत्वम् च वर्तनिं रथं प्रापयति॥४॥