Ṛgveda · Maṇḍala 10 · Sūkta 131
Ṛk 10.131.2
Saṃhitā
कु॒विदं॒ग यव॑मंतो॒ यवं॑ चि॒द्यथा॒ दांत्य॑नुपू॒र्वं वि॒यूय॑ ।
इ॒हेहै॑षां कृणुहि॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नमो॑वृक्तिं॒ न ज॒ग्मुः ॥
कुविद् अङ्ग यवमन्तो यवं चिद् यथा दान्त्य् अनुपूर्वं वियूय |
इहेहैषां कृणुहि भोजनानि ये बर्हिषो नमोवृक्तिं न जग्मुः ||
kuvídaṅgá yávamanto yávam cidyáthā dā́ntyanupūrvám viyū́ya ǀ
ihéhaiṣām kṛṇuhi bhójanāni yé barhíṣo námovṛktim ná jagmúḥ ǁ
kuvid aṅga yavamanto yavaṃ cid yathā dānty anupūrvaṃ viyūya |
ihehaiṣāṃ kṛṇuhi bhojanāni ye barhiṣo namovṛktiṃ na jagmuḥ ||
Padapāṭha
कु॒वित् । अ॒ङ्ग । यव॑ऽमन्तः । यव॑म् । चि॒त् । यथा॑ । दान्ति॑ । अ॒नु॒ऽपू॒र्वम् । वि॒ऽयूय॑ ।
इ॒हऽइ॑ह । ए॒षा॒म् । कृ॒णु॒हि॒ । भोज॑नानि । ये । ब॒र्हिषः॑ । नमः॑ऽवृक्तिम् । न । ज॒ग्मुः ॥
कुवित् । अङ्ग । यवऽमन्तः । यवम् । चित् । यथा । दान्ति । अनुऽपूर्वम् । विऽयूय ।
इहऽइह । एषाम् । कृणुहि । भोजनानि । ये । बर्हिषः । नमःऽवृक्तिम् । न । जग्मुः ॥
kuvít ǀ aṅgá ǀ yáva-mantaḥ ǀ yávam ǀ cit ǀ yáthā ǀ dā́nti ǀ anu-pūrvám ǀ vi-yū́ya ǀ
ihá-iha ǀ eṣām ǀ kṛṇuhi ǀ bhójanāni ǀ yé ǀ barhíṣaḥ ǀ námaḥ-vṛktim ǀ ná ǀ jagmúḥ ǁ
kuvit ǀ aṅga ǀ yava-mantaḥ ǀ yavam ǀ cit ǀ yathā ǀ dānti ǀ anu-pūrvam ǀ vi-yūya ǀ
iha-iha ǀ eṣām ǀ kṛṇuhi ǀ bhojanāni ǀ ye ǀ barhiṣaḥ ǀ namaḥ-vṛktim ǀ na ǀ jagmuḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.131.02
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.7.19.02
- Maṇḍala · Anuvāka · Ṛk
- 10.11.016
- Devatā देवता
- 1-3, 6, 7: Indra; 4, 5: Aśvins
- Ṛṣi ऋषि
- Sukīrti Kākṣīvata
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.