Ṛgveda · Maṇḍala 10 · Sūkta 131

Ṛk 10.131.7

Indra · Aśvins · Sukīrti Kākṣīvata

The whole sūkta Link

Saṃhitā

तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ॑मन॒से स्या॑म ।
स सु॒त्रामा॒ स्ववाँ॒ इंद्रो॑ अ॒स्मे आ॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योतु ॥

तस्य वयं सुमतौ यज्ञियस्यापि भद्रे सौमनसे स्याम |
स सुत्रामा स्ववां इन्द्रो अस्मे आराच् चिद् द्वेषः सनुतर् युयोतु ||

tásya vayám sumatáu yajñíyasyā́pi bhadré saumanasé syāma ǀ
sá sutrā́mā svávām̐ índro asmé ārā́cciddvéṣaḥ sanutáryuyotu ǁ

tasya vayaṃ sumatau yajñiyasyāpi bhadre saumanase syāma |
sa sutrāmā svavāṃ indro asme ārāc cid dveṣaḥ sanutar yuyotu ||

Padapāṭha

तस्य॑ । व॒यम् । सु॒ऽम॒तौ । य॒ज्ञिय॑स्य । अपि॑ । भ॒द्रे । सौ॒म॒न॒से । स्या॒म॒ ।
सः । सु॒ऽत्रामा॑ । स्वऽवा॑न् । इन्द्रः॑ । अ॒स्मे इति॑ । आ॒रात् । चि॒त् । द्वेषः॑ । स॒नु॒तः । यु॒यो॒तु॒ ॥

तस्य । वयम् । सुऽमतौ । यज्ञियस्य । अपि । भद्रे । सौमनसे । स्याम ।
सः । सुऽत्रामा । स्वऽवान् । इन्द्रः । अस्मे इति । आरात् । चित् । द्वेषः । सनुतः । युयोतु ॥

tásya ǀ vayám ǀ su-matáu ǀ yajñíyasya ǀ ápi ǀ bhadré ǀ saumanasé ǀ syāma ǀ
sáḥ ǀ su-trā́mā ǀ svá-vān ǀ índraḥ ǀ asmé íti ǀ ārā́t ǀ cit ǀ dvéṣaḥ ǀ sanutáḥ ǀ yuyotu ǁ

tasya ǀ vayam ǀ su-matau ǀ yajñiyasya ǀ api ǀ bhadre ǀ saumanase ǀ syāma ǀ
saḥ ǀ su-trāmā ǀ sva-vān ǀ indraḥ ǀ asme iti ǀ ārāt ǀ cit ǀ dveṣaḥ ǀ sanutaḥ ǀ yuyotu ǁ

References

Maṇḍala · Sūkta · Ṛk
10.131.07
Aṣṭaka · Adhyāya · Varga · Ṛk
8.7.19.07
Maṇḍala · Anuvāka · Ṛk
10.11.021
Devatā देवता
1-3, 6, 7: Indra; 4, 5: Aśvins
Ṛṣi ऋषि
Sukīrti Kākṣīvata
Chandas छन्दस्
Triṣṭubh, Anuṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.131.7

Interpretations

Sāyaṇa

उपोद्घातः

यज्ञियस्य यज्ञार्हस्य सुमतौ शोभनायामनुग्रहात्मिकायं बुद्धौ वयं स्याम। तद्विषयभूता भवेम। तथा भद्रे कल्याणे स्ॐअनसे सुमसो भावेऽपि तदीये स्याम। भवेम। स इन्द्रोऽस्मास्वनुग्रहात्मिकां बुद्धिं स्ॐअनस्यं च करोत्वित्यर्थः। सुत्रामा सुष्ठु त्राता स्ववान्धनवान् स इन्द्रश्चास्मे अस्मत्त आराच्चित् दूरदेश एव द्वेषो द्वेष्टॄन् सनुतः। अन्तर्हितनामैतत्। अन्तर्हितान्युयोतु। पृथक्करोतु।।

त्रातारमिन्द्रमित्यस्मिन्वर्गे। ४-७-३२। व्याख्याते। अक्षरार्थस्तु। सुत्राताधनवान् सर्वस्य वेदितेन्द्रो रक्षणैः सुष्ठु सुखयिता भवतु शत्रूंश्च हिनस्तु भयराहित्यम् च करोत्वस्माकं। अतो वयं शोभनवीर्योपेतस्य धनस्य स्वामिनो भवेमेति। सप्तम्यास्तु। तस्य यज्ञार्हस्येन्द्रस्यानुग्रहबुद्धौ भजनीये स्ॐअनस्ये च वयं विषयभूता भवेम। सुष्थु त्राता धनवान् स इन्द्रोऽस्मत्तो दूरदेशे द्वेष्टॄनन्तर्धानं योजयत्विति॥७॥