Ṛgveda · Maṇḍala 10 · Sūkta 131
Ṛk 10.131.3
Saṃhitā
न॒हि स्थूर्यृ॑तु॒था या॒तमस्ति॒ नोत श्रवो॑ विविदे संग॒मेषु॑ ।
ग॒व्यंत॒ इंद्रं॑ स॒ख्याय॒ विप्रा॑ अश्वा॒यंतो॒ वृष॑णं वा॒जयं॑तः ॥
नहि स्थूर्य् ऋतुथा यातम् अस्ति नोत श्रवो विविदे संगमेषु |
गव्यन्त इन्द्रं सख्याय विप्रा अश्वायन्तो वृषणं वाजयन्तः ||
nahí sthū́ryṛtuthā́ yātámásti nótá śrávo vivide saṃgaméṣu ǀ
gavyánta índram sakhyā́ya víprā aśvāyánto vṛ́ṣaṇam vājáyantaḥ ǁ
nahi sthūry ṛtuthā yātam asti nota śravo vivide saṃgameṣu |
gavyanta indraṃ sakhyāya viprā aśvāyanto vṛṣaṇaṃ vājayantaḥ ||
Padapāṭha
न॒हि । स्थूरि॑ । ऋ॒तु॒ऽथा । या॒तम् । अस्ति॑ । न । उ॒त । श्रवः॑ । वि॒वि॒दे॒ । स॒म्ऽग॒मेषु॑ ।
ग॒व्यन्तः॑ । इन्द्र॑म् । स॒ख्याय॑ । विप्राः॑ । अ॒श्व॒ऽयन्तः॑ । वृष॑णम् । वा॒जय॑न्तः ॥
नहि । स्थूरि । ऋतुऽथा । यातम् । अस्ति । न । उत । श्रवः । विविदे । सम्ऽगमेषु ।
गव्यन्तः । इन्द्रम् । सख्याय । विप्राः । अश्वऽयन्तः । वृषणम् । वाजयन्तः ॥
nahí ǀ sthū́ri ǀ ṛtu-thā́ ǀ yātám ǀ ásti ǀ ná ǀ utá ǀ śrávaḥ ǀ vivide ǀ sam-gaméṣu ǀ
gavyántaḥ ǀ índram ǀ sakhyā́ya ǀ víprāḥ ǀ aśva-yántaḥ ǀ vṛ́ṣaṇam ǀ vājáyantaḥ ǁ
nahi ǀ sthūri ǀ ṛtu-thā ǀ yātam ǀ asti ǀ na ǀ uta ǀ śravaḥ ǀ vivide ǀ sam-gameṣu ǀ
gavyantaḥ ǀ indram ǀ sakhyāya ǀ viprāḥ ǀ aśva-yantaḥ ǀ vṛṣaṇam ǀ vājayantaḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.131.03
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.7.19.03
- Maṇḍala · Anuvāka · Ṛk
- 10.11.017
- Devatā देवता
- 1-3, 6, 7: Indra; 4, 5: Aśvins
- Ṛṣi ऋषि
- Sukīrti Kākṣīvata
- Chandas छन्दस्
- Triṣṭubh, Anuṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.