Ṛgveda · Maṇḍala 10 · Sūkta 148
Ṛk 10.148.5
Saṃhitā
श्रु॒धी हव॑मिंद्र शूर॒ पृथ्या॑ उ॒त स्त॑वसे वे॒न्यस्या॒र्कैः ।
आ यस्ते॒ योनिं॑ घृ॒तवं॑त॒मस्वा॑रू॒र्मिर्न निम्नैर्द्र॑वयंत॒ वक्वाः॑ ॥
श्रुधी हवम् इन्द्र शूर पृथ्या उत स्तवसे वेन्यस्यार्कैः |
आ यस् ते योनिं घृतवन्तम् अस्वार् ऊर्मिर् न निम्नैर् द्रवयन्त वक्वाः ||
śrudhī́ hávamindra śūra pṛ́thyā utá stavase venyásyārkáiḥ ǀ
ā́ yáste yónim ghṛtávantamásvārūrmírná nímnáirdravayanta vákvāḥ ǁ
śrudhī havam indra śūra pṛthyā uta stavase venyasyārkaiḥ |
ā yas te yoniṃ ghṛtavantam asvār ūrmir na nimnair dravayanta vakvāḥ ||
Padapāṭha
श्रु॒धि । हव॑म् । इ॒न्द्र॒ । शू॒र॒ । पृथ्याः॑ । उ॒त । स्त॒व॒से॒ । वे॒न्यस्य॑ । अ॒र्कैः ।
आ । यः । ते॒ । योनि॑म् । घृ॒तऽव॑न्तम् । अस्वाः॑ । ऊ॒र्मिः । न । नि॒म्नैः । द्र॒व॒य॒न्त॒ । वक्वाः॑ ॥
श्रुधि । हवम् । इन्द्र । शूर । पृथ्याः । उत । स्तवसे । वेन्यस्य । अर्कैः ।
आ । यः । ते । योनिम् । घृतऽवन्तम् । अस्वाः । ऊर्मिः । न । निम्नैः । द्रवयन्त । वक्वाः ॥
śrudhí ǀ hávam ǀ indra ǀ śūra ǀ pṛ́thyāḥ ǀ utá ǀ stavase ǀ venyásya ǀ arkáiḥ ǀ
ā́ ǀ yáḥ ǀ te ǀ yónim ǀ ghṛtá-vantam ǀ ásvāḥ ǀ ūrmíḥ ǀ ná ǀ nimnáiḥ ǀ dravayanta ǀ vákvāḥ ǁ
śrudhi ǀ havam ǀ indra ǀ śūra ǀ pṛthyāḥ ǀ uta ǀ stavase ǀ venyasya ǀ arkaiḥ ǀ
ā ǀ yaḥ ǀ te ǀ yonim ǀ ghṛta-vantam ǀ asvāḥ ǀ ūrmiḥ ǀ na ǀ nimnaiḥ ǀ dravayanta ǀ vakvāḥ ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.148.05
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.8.06.05
- Maṇḍala · Anuvāka · Ṛk
- 10.11.129
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Pṛthu Vainya
- Chandas छन्दस्
- Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.