Ṛgveda · Maṇḍala 10 · Sūkta 155

Ṛk 10.155.5

Alakṣmīghnam · Brahmaṇaspati · Viśvedevās · Śirimbiṭha Bhāradvāja

The whole sūkta Link

Saṃhitā

परी॒मे गाम॑नेषत॒ पर्य॒ग्निम॑हृषत ।
दे॒वेष्व॑क्रत॒ श्रवः॒ क इ॒माँ आ द॑धर्षति ॥

परीमे गाम् अनेषत पर्य् अग्निम् अहृषत |
देवेष्व् अक्रत श्रवः क इमां आ दधर्षति ||

párīmé gā́maneṣata páryagnímahṛṣata ǀ
devéṣvakrata śrávaḥ ká imā́m̐ ā́ dadharṣati ǁ

parīme gām aneṣata pary agnim ahṛṣata |
deveṣv akrata śravaḥ ka imāṃ ā dadharṣati ||

Padapāṭha

परि॑ । इ॒मे । गाम् । अ॒ने॒ष॒त॒ । परि॑ । अ॒ग्निम् । अ॒हृ॒ष॒त॒ ।
दे॒वेषु॑ । अ॒क्र॒त॒ । श्रवः॑ । कः । इ॒मान् । आ । द॒ध॒र्ष॒ति॒ ॥

परि । इमे । गाम् । अनेषत । परि । अग्निम् । अहृषत ।
देवेषु । अक्रत । श्रवः । कः । इमान् । आ । दधर्षति ॥

pári ǀ imé ǀ gā́m ǀ aneṣata ǀ pári ǀ agním ǀ ahṛṣata ǀ
devéṣu ǀ akrata ǀ śrávaḥ ǀ káḥ ǀ imā́n ǀ ā́ ǀ dadharṣati ǁ

pari ǀ ime ǀ gām ǀ aneṣata ǀ pari ǀ agnim ǀ ahṛṣata ǀ
deveṣu ǀ akrata ǀ śravaḥ ǀ kaḥ ǀ imān ǀ ā ǀ dadharṣati ǁ

References

Maṇḍala · Sūkta · Ṛk
10.155.05
Aṣṭaka · Adhyāya · Varga · Ṛk
8.8.13.05
Maṇḍala · Anuvāka · Ṛk
10.12.020
Devatā देवता
1, 4: Alakṣmīghnam; 2, 3: Brahmaṇaspati; 5: Viśvedevās
Ṛṣi ऋषि
Śirimbiṭha Bhāradvāja
Chandas छन्दस्
Anuṣṭubh
Svara स्वरः
गान्धारः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.155.5

Interpretations

Sāyaṇa

इमे विश्वे देवा गाम्। जात्यभिप्रायमेकवचनम्। पणिभिरपहृताः सर्वा देवगवीः पर्यनेषत। पर्यनयन्। यष्टॄनङ्गिरसः परिप्रापयन्। ततोऽग्निः च पर्यहृषत। परितो व्यहरन्। यागार्थम् तत्र तत्र गार्हपत्यादिरूपेण स्थापितवन्त इत्यर्थः। एवं कृत्वा देवेषु यष्टव्येष्विद्रादिषु श्रवोऽन्नमक्रत। अकृषत। कः शत्रुरसुरादिरिमान्विश्वान्देवाना दधर्षति। अभिभवितुं शक्नोति। न कश्चिदित्यर्थः॥५॥