Ṛgveda · Maṇḍala 10 · Sūkta 174

Ṛk 10.174.5

Rājñaḥ Stutiḥ · Abhīvarta Āṅgirasa

The whole sūkta Link

Saṃhitā

अ॒स॒प॒त्नः स॑पत्न॒हाभिरा॑ष्ट्रो विषास॒हिः ।
यथा॒हमे॑षां भू॒तानां॑ वि॒राजा॑नि॒ जन॑स्य च ॥

असपत्नः सपत्नहाभिराष्ट्रो विषासहिः |
यथाहम् एषाम् भूतानां विराजानि जनस्य च ||

asapatnáḥ sapatnahā́bhírāṣṭro viṣāsahíḥ ǀ
yáthāhámeṣām bhūtā́nām virā́jāni jánasya ca ǁ

asapatnaḥ sapatnahābhirāṣṭro viṣāsahiḥ |
yathāham eṣām bhūtānāṃ virājāni janasya ca ||

Padapāṭha

अ॒स॒प॒त्नः । स॒प॒त्न॒ऽहा । अ॒भिऽरा॑ष्ट्रः । वि॒ऽस॒स॒हिः ।
यथा॑ । अ॒हम् । ए॒षाम् । भू॒ताना॑म् । वि॒ऽराजा॑नि । जन॑स्य । च॒ ॥

असपत्नः । सपत्नऽहा । अभिऽराष्ट्रः । विऽससहिः ।
यथा । अहम् । एषाम् । भूतानाम् । विऽराजानि । जनस्य । च ॥

asapatnáḥ ǀ sapatna-hā́ ǀ abhí-rāṣṭraḥ ǀ vi-sasahíḥ ǀ
yáthā ǀ ahám ǀ eṣā́m ǀ bhūtā́nām ǀ vi-rā́jāni ǀ jánasya ǀ ca ǁ

asapatnaḥ ǀ sapatna-hā ǀ abhi-rāṣṭraḥ ǀ vi-sasahiḥ ǀ
yathā ǀ aham ǀ eṣām ǀ bhūtānām ǀ vi-rājāni ǀ janasya ǀ ca ǁ

References

Maṇḍala · Sūkta · Ṛk
10.174.05
Aṣṭaka · Adhyāya · Varga · Ṛk
8.8.32.05
Maṇḍala · Anuvāka · Ṛk
10.12.113
Devatā देवता
Rājñaḥ Stutiḥ
Ṛṣi ऋषि
Abhīvarta Āṅgirasa
Chandas छन्दस्
Anuṣṭubh
Svara स्वरः
गान्धारः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.174.5

Interpretations

Sāyaṇa

सपत्नहा सपत्नानां शत्रूणां हन्ता अत एवासपत्नः शत्रुरहितोऽहमभूवम्। अभिराष्ट्रोऽभिगतराष्ट्रः प्राप्तराज्यः सन् विषासहिः शत्रूणां विशेषेणाभिभविता चाभूवम्। यथा येन प्रकारेणाहमेषां दृश्यमानानां सर्वेषां भूतानां प्राणिनां जनस्य च सेवकस्यामत्यादेश्च विराजानि यथेश्वरो भवानि तथा सपत्नहा विषासहिश्चा भूवमित्यर्थः॥५॥