Ṛgveda · Maṇḍala 10 · Sūkta 84

Ṛk 10.84.7

Manyu · Manyu Tāpasa

The whole sūkta Link

Saṃhitā

संसृ॑ष्टं॒ धन॑मु॒भयं॑ स॒माकृ॑तम॒स्मभ्यं॑ दत्तां॒ वरु॑णश्च म॒न्युः ।
भियं॒ दधा॑ना॒ हृद॑येषु॒ शत्र॑वः॒ परा॑जितासो॒ अप॒ नि ल॑यंतां ॥

संसृष्टं धनम् उभयं समाकृतम् अस्मभ्यं दत्तां वरुणश् च मन्युः |
भियं दधाना हृदयेषु शत्रवः पराजितासो अप नि लयन्ताम् ||

sáṃsṛṣṭam dhánamubháyam samā́kṛtamasmábhyam dattām váruṇaśca manyúḥ ǀ
bhíyam dádhānā hṛ́dayeṣu śátravaḥ párājitāso ápa ní layantām ǁ

saṃsṛṣṭaṃ dhanam ubhayaṃ samākṛtam asmabhyaṃ dattāṃ varuṇaś ca manyuḥ |
bhiyaṃ dadhānā hṛdayeṣu śatravaḥ parājitāso apa ni layantām ||

Padapāṭha

सम्ऽसृ॑ष्टम् । धन॑म् । उ॒भय॑म् । स॒म्ऽआकृ॑तम् । अ॒स्मभ्य॑म् । द॒त्ता॒म् । वरु॑णः । च॒ । म॒न्युः ।
भिय॑म् । दधा॑नाः । हृद॑येषु । शत्र॑वः । परा॑ऽजितासः । अप॑ । नि । ल॒य॒न्ता॒म् ॥

सम्ऽसृष्टम् । धनम् । उभयम् । सम्ऽआकृतम् । अस्मभ्यम् । दत्ताम् । वरुणः । च । मन्युः ।
भियम् । दधानाः । हृदयेषु । शत्रवः । पराऽजितासः । अप । नि । लयन्ताम् ॥

sám-sṛṣṭam ǀ dhánam ǀ ubháyam ǀ sam-ā́kṛtam ǀ asmábhyam ǀ dattām ǀ váruṇaḥ ǀ ca ǀ manyúḥ ǀ
bhíyam ǀ dádhānāḥ ǀ hṛ́dayeṣu ǀ śátravaḥ ǀ párā-jitāsaḥ ǀ ápa ǀ ní ǀ layantām ǁ

sam-sṛṣṭam ǀ dhanam ǀ ubhayam ǀ sam-ākṛtam ǀ asmabhyam ǀ dattām ǀ varuṇaḥ ǀ ca ǀ manyuḥ ǀ
bhiyam ǀ dadhānāḥ ǀ hṛdayeṣu ǀ śatravaḥ ǀ parā-jitāsaḥ ǀ apa ǀ ni ǀ layantām ǁ

References

Maṇḍala · Sūkta · Ṛk
10.084.07
Aṣṭaka · Adhyāya · Varga · Ṛk
8.3.19.07
Maṇḍala · Anuvāka · Ṛk
10.06.135
Devatā देवता
Manyu
Ṛṣi ऋषि
Manyu Tāpasa
Chandas छन्दस्
Jagatī, Triṣṭubh
Svara स्वरः
निषादः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.84.7

Interpretations

Sāyaṇa

संसृष्टमविभागमापन्नमुभयमुभयविधम् धनं समाकृतम् सम्यगानीतमस्मभ्यं दत्ताम्। कः। वरुणश्च देवो मन्युश्च। भियं भयं हृदये दधानाः शत्रवोऽस्मद्विरोधिनः पराजितासः पराजिता अप नि लयन्ताम्। अपनिलीना भवन्तु॥७॥