Ṛgveda · Maṇḍala 10 · Sūkta 133
Ṛk 10.133.1
Saṃhitā
प्रो ष्व॑स्मै पुरोर॒थमिंद्रा॑य शू॒षम॑र्चत ।
अ॒भीके॑ चिदु लोक॒कृत्सं॒गे स॒मत्सु॑ वृत्र॒हास्माकं॑ बोधि चोदि॒ता नभं॑तामन्य॒केषां॑ ज्या॒का अधि॒ धन्व॑सु ॥
प्रो ष्व् अस्मै पुरोरथम् इन्द्राय शूषम् अर्चत |
अभीके चिद् उ लोककृत् संगे समत्सु वृत्रहास्माकम् बोधि चोदिता नभन्ताम् अन्यकेषां ज्याका अधि धन्वसु ||
pró ṣvásmai purorathámíndrāya śūṣámarcata ǀ
abhī́ke cidu lokakṛ́tsaṃgé samátsu vṛtrahā́smā́kam bodhi coditā́ nábhantāmanyakéṣām jyākā́ ádhi dhánvasu ǁ
pro ṣv asmai puroratham indrāya śūṣam arcata |
abhīke cid u lokakṛt saṃge samatsu vṛtrahāsmākam bodhi coditā nabhantām anyakeṣāṃ jyākā adhi dhanvasu ||
Padapāṭha
प्रो इति॑ । सु । अ॒स्मै॒ । पु॒रः॒ऽर॒थम् । इन्द्रा॑य । शू॒षम् । अ॒र्च॒त॒ ।
अ॒भीके॑ । चि॒त् । ऊं॒ इति॑ । लो॒क॒ऽकृत् । स॒म्ऽगे । स॒मत्ऽसु॑ । वृ॒त्र॒ऽहा । अ॒स्माक॑म् । बो॒धि॒ । चो॒दि॒ता । नभ॑न्ताम् । अ॒न्य॒केषा॑म् । ज्या॒काः । अधि॑ । धन्व॑ऽसु ॥
प्रो इति । सु । अस्मै । पुरःऽरथम् । इन्द्राय । शूषम् । अर्चत ।
अभीके । चित् । ऊं इति । लोकऽकृत् । सम्ऽगे । समत्ऽसु । वृत्रऽहा । अस्माकम् । बोधि । चोदिता । नभन्ताम् । अन्यकेषाम् । ज्याकाः । अधि । धन्वऽसु ॥
pró íti ǀ sú ǀ asmai ǀ puraḥ-rathám ǀ índrāya ǀ śūṣám ǀ arcata ǀ
abhī́ke ǀ cit ǀ ūṃ íti ǀ loka-kṛ́t ǀ sam-gé ǀ samát-su ǀ vṛtra-hā́ ǀ asmā́kam ǀ bodhi ǀ coditā́ ǀ nábhantām ǀ anyakéṣām ǀ jyākā́ḥ ǀ ádhi ǀ dhánva-su ǁ
pro iti ǀ su ǀ asmai ǀ puraḥ-ratham ǀ indrāya ǀ śūṣam ǀ arcata ǀ
abhīke ǀ cit ǀ ūṃ iti ǀ loka-kṛt ǀ sam-ge ǀ samat-su ǀ vṛtra-hā ǀ asmākam ǀ bodhi ǀ coditā ǀ nabhantām ǀ anyakeṣām ǀ jyākāḥ ǀ adhi ǀ dhanva-su ǁ
References
- Maṇḍala · Sūkta · Ṛk
- 10.133.01
- Aṣṭaka · Adhyāya · Varga · Ṛk
- 8.7.21.01
- Maṇḍala · Anuvāka · Ṛk
- 10.11.029
- Devatā देवता
- Indra
- Ṛṣi ऋषि
- Sudās Paijavana
- Chandas छन्दस्
- Śakvarī, Mahāpaṅkti, Triṣṭubh
- Svara स्वरः
- धैवतः
Text and interpretations from the Ṛgveda database of theveda.org.in.