Ṛgveda · Maṇḍala 10 · Sūkta 133

Ṛk 10.133.7

Indra · Sudās Paijavana

The whole sūkta Link

Saṃhitā

अ॒स्मभ्यं॒ सु त्वमिं॑द्र॒ तां शि॑क्ष॒ या दोह॑ते॒ प्रति॒ वरं॑ जरि॒त्रे ।
अच्छि॑द्रोध्नी पी॒पय॒द्यथा॑ नः स॒हस्र॑धारा॒ पय॑सा म॒ही गौः ॥

अस्मभ्यं सु त्वम् इन्द्र तां शिक्ष या दोहते प्रति वरं जरित्रे |
अच्छिद्रोध्नी पीपयद् यथा नः सहस्रधारा पयसा मही गौः ||

asmábhyam sú tvámindra tā́m śikṣa yā́ dóhate práti váram jaritré ǀ
ácchidrodhnī pīpáyadyáthā naḥ sahásradhārā páyasā mahī́ gáuḥ ǁ

asmabhyaṃ su tvam indra tāṃ śikṣa yā dohate prati varaṃ jaritre |
acchidrodhnī pīpayad yathā naḥ sahasradhārā payasā mahī gauḥ ||

Padapāṭha

अ॒स्मभ्य॑म् । सु । त्वम् । इ॒न्द्र॒ । ताम् । शि॒क्ष॒ । या । दोह॑ते । प्रति॑ । वर॑म् । ज॒रि॒त्रे ।
अच्छि॑द्रऽऊध्नी । पी॒पय॑त् । यथा॑ । नः॒ । स॒हस्र॑ऽधारा । पय॑सा । म॒ही । गौः ॥

अस्मभ्यम् । सु । त्वम् । इन्द्र । ताम् । शिक्ष । या । दोहते । प्रति । वरम् । जरित्रे ।
अच्छिद्रऽऊध्नी । पीपयत् । यथा । नः । सहस्रऽधारा । पयसा । मही । गौः ॥

asmábhyam ǀ sú ǀ tvám ǀ indra ǀ tā́m ǀ śikṣa ǀ yā́ ǀ dóhate ǀ práti ǀ váram ǀ jaritré ǀ
ácchidra-ūdhnī ǀ pīpáyat ǀ yáthā ǀ naḥ ǀ sahásra-dhārā ǀ páyasā ǀ mahī́ ǀ gáuḥ ǁ

asmabhyam ǀ su ǀ tvam ǀ indra ǀ tām ǀ śikṣa ǀ yā ǀ dohate ǀ prati ǀ varam ǀ jaritre ǀ
acchidra-ūdhnī ǀ pīpayat ǀ yathā ǀ naḥ ǀ sahasra-dhārā ǀ payasā ǀ mahī ǀ gauḥ ǁ

References

Maṇḍala · Sūkta · Ṛk
10.133.07
Aṣṭaka · Adhyāya · Varga · Ṛk
8.7.21.07
Maṇḍala · Anuvāka · Ṛk
10.11.035
Devatā देवता
Indra
Ṛṣi ऋषि
Sudās Paijavana
Chandas छन्दस्
Śakvarī, Mahāpaṅkti, Triṣṭubh
Svara स्वरः
धैवतः

Text and interpretations from the Ṛgveda database of theveda.org.in.

Ṛgveda 10.133.7

Interpretations

Sāyaṇa

हे इन्द्र त्वं तां गामस्मभ्यं स्तोतृभ्यः सु शिक्ष। प्रदेहि। शिक्षतिर्दानकर्मा। या गौर्जरित्रे स्तोत्रे वरं वरनीयं पयः प्रति दोहते प्रतिदिनं नैरन्तर्येण दुग्धे। दुहेर्बहुलं छन्दसीति शपो लुगभावः। अदुपदेशाल्लसार्वधातुकानुदात्तत्वे शपः पित्त्वादनुदात्तत्वम्। धातुस्वरः शिष्यते। वरं । वृञ् वरण इत्यस्माद्ग्रहव्रुदृनिश्चिगमश्चेति कर्मण्यण्। सा प्रत्ता गौरच्छिद्रोध्नी निविडोधस्का अत एव सहस्रधारा बहुभिः क्षिरधारभिरुपेता मही महती सती यथा नोऽस्मान्पयसा क्षीरेण पीपयत् प्रवर्धयेत् तथा तां कुर्विति शेशः। ओप्यायी वृद्धौ। ण्यन्ताच्छान्दसो लुङ्। व्यत्ययेन धातोः पीभावः। अडभावश्छान्दसः॥७॥